शालग्राममयी मुद्रा संस्थिता यत्र हि क्वचित् । वाराणस्यां च यत्पुण्यं सर्वं तत्रैव तद्भवेत्
ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः । तत्सर्वं नाशयेदाशु शालग्रामशिलार्चनात्
नारदउवाच- एवं तुलस्या माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया । सांप्रतं तु समाचक्ष्व त्रिरात्रं तुलसीव्रतम्
सदाशिव उवाच- शृणु विप्र महाबुद्धे व्रतमेतत्पुरातनम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
पुरा रैभ्यंतरे कल्पे राजा ह्यासीत्प्रजापतिः । तस्य भार्या च विख्याता चंद्ररूपा महासती
सा वै व्रतमिदं चक्रे सर्वकामफलप्रदम् । त्रिरात्रं तु व्रतं तस्या धर्मकामार्थ मोक्षदम्
सफलं जीवितं तेषां यैः श्रुतं तुलसीव्रतम् । कार्तिके शुक्लपक्षे तु नवम्यां चैव नारद
नियमस्थो व्रती तिष्ठेद्भूमिशायी जितेंद्रियः । व्रतं त्रिरात्रमुद्दिश्य शुचिः संयतमानसः
स्वपेन्नियमपूर्वं तु तुलसीवनसंनिधौ । ततो मध्याह्नसमये नद्यादौ विमले जले
स्नानं कृत्वा पितॄन्देवांस्तर्पयेद्विधिपूर्वकम् । सुवर्णं कारयेद्देवं लक्ष्म्या सह जनार्दनम्
वित्तशाठ्यं न कर्तव्यमात्मनः श्रेयमिच्छता । वस्त्रयुग्मं ततः कार्यं पीते शुक्लेऽपि वाससी । नवग्रहाणामारंभं शांतिकं विधिपूर्वकम्
श्रपयित्वा चरुं तत्र वैष्णवं होममाचरेत् । द्वादश्यां देवदेवेशं पूजयित्वा प्रयत्नतः
अव्रणं शुद्धकलशं स्थापयेद्विधिपूर्वकम् । पंचरत्नसमोपेतं पल्लवैश्चोषधीयुतम्
तस्योपरिन्यसेत्पात्रे लक्ष्म्या सह जनार्दनम् । स्थापयेत्तुलसीमूले मंत्रैर्वेदपुराणकैः
पयसा केवलेनैव सिंचयेत्तुलसीवनम् । पंचामृतेन संस्नाप्य देवदेवं जगद्गुरुम्
योऽनंतरूपोऽखिलविश्वरूपो गर्भोदके लोकविधिं बिभर्त्ति । प्रसीदतामेष सदेव देवो यो मायया विश्वकृदेष देवी
प्रार्थनामंत्रः । आगच्छाच्युत देवेश तेजोराशे जगत्पते । सदैव तिमिरध्वंसी पाहि मां भवसागरात्
आवाहनमंत्रः । पंचामृतेन सुस्नानं तथा गंधोदकेन च । गंगादीनां च तोयेन स्नातोऽनंतःप्रसीदतु
स्नानमंत्रः । श्रीखंडागुरुकर्पूरं कुंकुमादिविलेपनम् । भक्त्या दत्तं मया देव लक्ष्म्या सह गृहाण वै
विलेपनमंत्रः । नारायण नमस्तेऽस्तु नरकार्णवतारण । त्रैलोक्याधिपते तुभ्यं ददामि वसने शुभे
वस्त्रमंत्रः । दामोदर नमस्तेस्तु त्राहि मां भवसागरात् । ब्रह्मसूत्रं मया दत्तं गृहाण पुरुषोत्तम
उपवीतमंत्रः । पुष्पाणि च सुगंधीनि मालत्यादीनि वै प्रभो । मया दत्तानि देवेश प्रीतितः प्रतिगृह्यताम्
पुष्पमंत्रः । नैवेद्यं गृह्यतां नाथ भक्ष्यभोज्यैः समन्वितम् । सर्वै रसैः सुसंपन्नं गृहाण परमेश्वर
नैवेद्यमंत्रः । पूगानि नागपत्राणि कर्पूरसहितानि च । मया दत्तानि देवेश तांबूलं प्रतिगृह्यताम्
तांबूलमंत्रः । धूपं दत्वा गुरुं भक्त्या गुग्गुलं घृतमिश्रितम् । एवं पूजा प्रकर्त्तव्या घृतेन दीपमाचरेत्
विविधं मुनिशार्दूल दीपं कृत्वा समाहितः । लक्ष्मीनारायणस्याग्रे तुलसीवनसन्निधौ
अर्घं तत्र प्रदातव्यं देवदेवाय चक्रिणे । नवम्यां नालिकेरेण पुत्रार्थमर्घमुत्तमम्
दशम्यां बीजपूरं तु धर्मकामार्थसिद्धये । एकादश्यां दाडिमेन दारिद्र्यं नाशयेत्सदा
सप्तधान्येन संयुक्तं वंशपात्रेण नारद । फलसप्तकसंयुक्तं पत्रं पूगसमन्वितम्
वस्त्रेणाच्छादितं कृत्वा देवस्याग्रे निवेदयेत् । मंत्रेणानेन विपेंद्र शृणुष्वैकाग्रमानसः