सुमद उवाच। कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः । भक्तरक्षावतारोऽयं ममानुग्रहकारकः
धन्या लोका इमे पुर्यां रघुनाथमुखांबुजम् । ये पिबंत्यनिशं चाक्षिपुटकैः परिमोदिताः
अर्थजातं मदीयं च नितरां पुरुषर्षभ । कृतार्थं कुलभूम्यादि वस्तुजातं महामते
कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया । रघुनाथमुखांभोजं द्रक्ष्येद्य सकुटुंबकः
इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे । सर्वं तत्कथयामास रघुनाथगुणोदयम्
त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम् । गंतुं चकार धिषणां राज्ञा सह महामतिः
तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत् । शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः
वासांसि बहुरत्नानि धनानि विविधानि च । शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः
ततो गमनमारेभे मंत्रिभिर्बहुवित्तमैः । पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः
शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता । जगाम मार्गे विहसन्रघुनाथप्रतापभृत्
पयोष्णीतीरमासाद्य जगाम स हयोत्तमः । पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः
आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम् । तत्रतत्र विशृण्वानो रघुनाथगुणोदयम्
एष धीमान्हरिर्याति हरिणा परिरक्षितः । हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः
इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः । तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान्
ददर्श चाश्रमं शुद्धं जनजंतुसमाकुलम् । वेदध्वनिहताशेषा मंगलं शृण्वतां नृणाम्
अग्निहोत्रहविर्धूम पवित्रितनभोखिलम् । मुनिवर्यकृतानेक यागयूपसुशोभितम्
यत्र गावस्तु हरिणा पाल्यंते पालनोचिताः । मूषका न खनंत्यस्मिन्बिडालस्य भयाद्बिलम्
मयूरैर्नकुलैः सार्द्धं क्रीडंति फणिनोनिशम् । गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः
एणास्तत्रत्य नीवारभक्षणेषु कृतादराः । न भयं कुर्वते कालाद्रक्षिता मुनिवृंदकैः
गावः कुंभसमोधस्का नंदिनी समविग्रहाः । कुर्वंति चरणोत्थेन रजसेलां पवित्रिताम्
मुनिवर्याः समित्पाणि पद्मैर्धर्मक्रियोचिताम् । दृष्ट्वा पप्रच्छसुमतिं सर्वज्ञं राम मंत्रिणम्
शत्रुघ्न उवाच। सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम् । निर्वैरिजंतु संसेव्यं मुनिवृंदसमाकुलम्
श्रोष्यामि मुनिवार्तां च विदधामि पवित्रताम् । निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः
इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः । कथयामास सचिवो रघुनाथस्य धीमतः
सुमतिरुवाच। च्यवनस्याश्रमं विद्धि महातापसशोभितम् । निर्वैरिजंतुसंकीर्णं मुनिपत्नीभिरावृतम्
योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात् । स्वायंभुवमहायज्ञे शक्रमानविभेदनः
महामुनेः प्रभावोऽयं न केनापि समाप्यते । तपोबलसमृद्धस्य वेदमूर्तिधरस्य ह
श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः । सर्वं पप्रच्छ सुमतिं शक्रमानादिभंजनम्
शत्रुघ्न उवाच। कदासौ दस्रयोर्भागं चकार सुरपंक्तिषु । किं कृतं देवराजेन स्वायंभुव महामखे
सुमतिरुवाच। ब्रह्मवंशेऽतिविख्यातो मुनिर्भृगुरिति श्रुतः । कदाचिद्गतवान्सायं समिदाहरणं प्रति