ते चक्रुर्गदितं यादृग्देवदेवेन धीमता । स्वैःस्वैरंशैर्मही पूर्णा ऋक्षवानररूपिभिः
योऽसौ विष्णुर्महादेवो देवानां दुःखनाशकः । सत्वमेव महाराज भगवान्कृतविग्रहः
भरतोऽयं लक्ष्मणश्च शत्रुघ्नश्च महामते । तावकांशाद्दशग्रीवो जनितश्च सुरार्द्दनः
पूर्ववैरानुबंधेन जानकीं हृतवान्पुनः । स त्वया निहतो दैत्यो ब्रह्मराक्षसजातिमान्
पुलस्त्यपुत्रो दैत्येंद्र सर्वलोकैककंटकः । पातितः पृथिवी सर्वा सुखमापमहेश्वर
ब्राह्मणानां सुखं त्वद्य मुनीनां तापसं बलम् । शिवानि सर्वतीर्थानि सर्वे यज्ञाः सुसंहिताः
त्वयि राज्ञि जगत्सर्वं सदेवासुरमानुषम् । सुखं प्रपेदे विश्वात्मञ्जगद्योने नरोत्तम
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ । उत्पत्तिश्च विपत्तिश्च मया मत्यनुसारतः
इत्थं निशम्य दितिजेंद्र कुलानुकारिवार्तां महापुरुष ईश्वरईशिता च । संरुद्धबाष्पगलदश्रुमुखारविंदो भूमौ पपात सदसि प्रथितप्रभावः
शेष उवाच। अथ स्वागतसंतुष्टं शत्रुघ्नं प्राह भूमिपः । रघुनाथकथां श्रेष्ठां शुश्रूषुः पुरुषर्षभः
सुमद उवाच। कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः । भक्तरक्षावतारोऽयं ममानुग्रहकारकः
धन्या लोका इमे पुर्यां रघुनाथमुखांबुजम् । ये पिबंत्यनिशं चाक्षिपुटकैः परिमोदिताः
अर्थजातं मदीयं च नितरां पुरुषर्षभ । कृतार्थं कुलभूम्यादि वस्तुजातं महामते
कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया । रघुनाथमुखांभोजं द्रक्ष्येद्य सकुटुंबकः
इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे । सर्वं तत्कथयामास रघुनाथगुणोदयम्
त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम् । गंतुं चकार धिषणां राज्ञा सह महामतिः
तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत् । शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः
वासांसि बहुरत्नानि धनानि विविधानि च । शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः
ततो गमनमारेभे मंत्रिभिर्बहुवित्तमैः । पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः
शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता । जगाम मार्गे विहसन्रघुनाथप्रतापभृत्
पयोष्णीतीरमासाद्य जगाम स हयोत्तमः । पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः
आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम् । तत्रतत्र विशृण्वानो रघुनाथगुणोदयम्
एष धीमान्हरिर्याति हरिणा परिरक्षितः । हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः
इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः । तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान्
ददर्श चाश्रमं शुद्धं जनजंतुसमाकुलम् । वेदध्वनिहताशेषा मंगलं शृण्वतां नृणाम्
अग्निहोत्रहविर्धूम पवित्रितनभोखिलम् । मुनिवर्यकृतानेक यागयूपसुशोभितम्
यत्र गावस्तु हरिणा पाल्यंते पालनोचिताः । मूषका न खनंत्यस्मिन्बिडालस्य भयाद्बिलम्
मयूरैर्नकुलैः सार्द्धं क्रीडंति फणिनोनिशम् । गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः
एणास्तत्रत्य नीवारभक्षणेषु कृतादराः । न भयं कुर्वते कालाद्रक्षिता मुनिवृंदकैः
गावः कुंभसमोधस्का नंदिनी समविग्रहाः । कुर्वंति चरणोत्थेन रजसेलां पवित्रिताम्