यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः । विलापं प्रकरोत्युच्चैस्तं ग्रामं स ददर्श ह
अगस्त्य उवाच। अथोग्रं स तपो दैत्यो दशवर्षसहस्रकम् । चकार भानुमक्ष्णा च पश्यन्नूर्ध्वपदे स्थितः
कुंभकर्णोऽपि कृतवांस्तपः परमदुश्चरम् । विभीषणस्तु धर्मात्मा चचार परमं तपः
तदा प्रसन्नो भगवान्देवदेवः प्रजापतिः । देवदानवयक्षादि मुकुटैः परिसेवितः
ददौ राज्यं च सुमहद्भुवनत्रयभास्वरम् । वपुश्च कृतवान्रम्यं देवदानवसेवितम्
तदा संतापितो भ्राता धनदो धर्मबुद्धिमान् । विमानं तु ततो नीतं लंका च नगरी हठात्
भुवनं तापितं सर्वं देवाश्चैव दिवो गताः । हतवान्ब्राह्मणकुलं मुनीनां मूलकृंतनः
तदातिदुःखिता देवाः सेंद्रा ब्रह्माणमाययुः । स्तुतिं चक्रुर्महात्मानो दंडवत्प्रणतिं गताः
ते तुष्टुवुः सुराः सर्वे वाग्भिरर्थ्याभिरादृताः । ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत्
ततो निवेदयांचक्रुर्ब्रह्मणे विबुधाः पुरः । दशग्रीवाच्च संकष्टं तथा निजपराभवम्
क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह । तस्य शैलस्य पार्श्वे तु वैचित्र्येण समाकुलाः
स्थिताः संतुष्टुवुर्देवाः शंभुं शक्रपुरोगमाः । नमो भवाय शर्वाय नीलग्रीवाय ते नमः
नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः । इति सर्वमुखेनोक्तां वाणीमाकर्ण्य शंकरः
प्रोवाच नंदिनं देवा नानयेति ममांतिकम् । एतस्मिन्नंतरे देवा आहूता नंदिना च ते
प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः । ब्रह्मागत्य ददर्शाथ शंकरं लोकशंकरम्
गणकोटिसहस्रैस्तु सेवितं मोदशालिभिः । नग्नैर्विरूपैः कुटिलैर्धूसरैर्विकटैस्तथा
प्रणिपत्याग्रतः स्थित्वा सह देवैः पितामहः । उवाच देवदेवेशं पश्यावस्थां दिवौकसाम्
कृपां कुरु महादेव शरणागतवत्सल । दुष्टदैत्यवधार्थं त्वं समुद्योगं विधेहि भोः
सोऽपि तद्वचनं श्रुत्वा दैन्यशोकसमन्वितम् । त्रिदशैः सहितैः सर्वैराजगाम हरेः पदम्
तुष्टुवुर्मुनयः सर्वे ससुरोरगकिन्नराः । जय माधव देवेश जय भक्तजनार्तिहन्
विलोकय महादेव लोकयस्व स्वसेवकान् । इत्युच्चैर्जगदुः सर्वे देवाः शर्वपुरोगमाः
इत्युक्तमाकर्ण्य सुराधिनाथो दृष्ट्वा सुरार्तिं परिचिंत्य विष्णुः । जगाद देवाञ्जलदोच्चया गिरा दुःखं तु तेषां प्रशमं नयन्निव
भो ब्रह्मशर्वेंद्र पुरोगमामराः शृण्वंतु वाचं भवतां हितेरताम् । जाने दशग्रीवकृतं भयं वस्तन्नाशयाम्यद्य कृतावतारः
पुरी त्वयोध्या रविवंशजातैर्नृपैर्महादानमखादिसत्क्रियैः । प्रपालिता भूतलमंडनीया विराजते राजतभूमिभागैः
तस्यां दशरथो राजा निरपत्यः श्रियान्वितः । पालयत्यधुना राज्यं दिक्चक्रजयवान्विभुः
स तु वंद्यादृष्यशृंगात्प्रार्थितात्पुत्रकाम्यया । पुत्रेष्ट्यां विधिना यज्वा महाबलसमन्वितः
ततोऽहं प्रार्थितः पूर्वं तपसा तेन भोः सुराः । पत्नीषु तिसृषु प्रीत्या चतुर्धापि भवत्कृते
राम लक्ष्मण शत्रुघ्न भरताख्या समन्वितः । कर्तास्मि रावणोद्धारं समूल बलवाहनम्
भवंतोऽपि स्वकैरंशैरवतीर्य चरंत्विह । ऋक्षवानररूपेण सर्वत्र पृथिवीतले
इत्युक्त्वा विररामाशु नभसीरितवाङ्मुने । देवाः श्रुत्वा महद्वाक्यं सर्वे संहृष्टमानसाः