रावणारिकथा वार्द्धौ मशको मादृशः कियान् । यत्र ब्रह्मादयो देवा मोहिता न विदंत्यपि
तथापि भो मया तुभ्यं वक्तव्यं स्वीयशक्तितः । पक्षिणः स्वगतिं श्रित्वा खे गच्छंति सुविस्तरे
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । येषां वै यादृशी बुद्धिस्ते वदंत्येव तादृशम्
रघुनाथसतीकीर्तिर्मद्बुद्धिं निर्मलीमसाम् । करिष्यति स्वसंपर्कात्कनकं त्वनलो यथा
सूत उवाच। इत्युक्त्वा तं मुनिवरं ध्यानस्तिमितलोचनः । ज्ञानेनालोकयांचक्रे कथां लोकोत्तरां शुभाम्
गद्गदस्वरसंयुक्तो महाहर्षांकितांगकः । कथयामास विशदां कथां दाशरथेः पुनः
शेष उवाच। लंकेश्वरे विनिहते देवदानवदुःखदे । अप्सरोगणवक्त्राब्जचंद्रमः कांतिहर्तरि
सुराः सर्वे सुखं प्रापुरिंद्र प्रभृतयस्तदा । सुखं प्राप्ताः स्तुतिं चक्रुर्दासवत्प्रणतिं गताः
लंकायां च प्रतिष्ठाप्य धर्मयुक्तं बिभीषणम् । सीतयासहितो रामः पुष्पकं समुपाश्रितः
सुग्रीवहनुमत्सीतालक्ष्मणैः संयुतस्तदा । बिभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः
लंकां स पश्यन्बहुधा भग्नप्राकारतोरणाम् । दृष्ट्वाऽशोकवनं तत्र सीतास्थानं मुमूर्च्छ ह
शिंशपांस्तत्र वृक्षांश्च पुष्पितान्कोरकैर्युतान् । राक्षसीभिः समाकीर्णान्मृताभिर्हनुमद्भयात्
इत्थं सर्वं विलोक्याशु रामः प्रायात्पुरीं प्रति । ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानकैः
देवदुंदुभिनिर्घोषाञ्छृण्वञ्छ्रोत्रसुखावहान् । तथैवाप्सरसां नृत्यैः पूज्यमानो रघूत्तमः
सीतायै दर्शयन्मार्गे तीर्थान्याश्रमवंति च । मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः
यत्रयत्र कृतावासाः पूर्वं रामेण धीमता । तान्सर्वान्दर्शयामास लक्ष्मणेन समन्वितः
इत्येवं दर्शयंस्तस्यै रामोऽद्राक्षीत्स्वकां पुरीम् । तस्याः पुनः समीपे तु नंदिग्रामं ददर्श ह
यत्र वै भरतो राजा पालयन्धर्ममास्थितः । भ्रातुर्वियोगजनितं दुःखचिह्नं वहन्बहु
गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः । कृशांगयष्टिर्दुःखार्तः कुर्वन्रामकथां मुहुः
यवान्नमपि नो भुंक्ते जलं पिबति नो मुहुः । उद्यंतं सवितारं यो नमस्कृत्य ब्रवीति च
जगन्नेत्रसुरस्वामिन्हर मे दुष्कृतं महत् । मदर्थे रामचंद्रोऽपि जगत्पूज्यो वनं ययौ
सीतया सुकुमारांग्या सेव्यमानोऽटवीं गतः । या सीता पुष्पपर्यंके वृंतमासाद्य दुःखिता
या सीता रविसंतापं कदापि प्राप नो सती । मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो
या सीता राजवृंदैश्च न दृष्टा नयनैः कदा । सा सीता दृश्यते नूनं किरातैः कालरूपिभिः
या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति । सा सीताद्य वनस्थानि फलानि प्रार्थयत्यहो
इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः । प्रातःप्रातर्महाराजो भरतो रामवल्लभः
यश्चोच्यमानः सचिवैः समदुःखसुखैर्बुधैः । नीतिज्ञैः शास्त्रनिपुणैरिति प्रोवाच तान्नृपः
अमात्या दुर्भगं मां किं प्रब्रूत पुरुषाधमम् । मदर्थे मेऽग्रजो रामो वनं प्राप्यावसीदति
दुर्भगस्य मम प्रस्वाः पापमार्जनमादरात् । करोमि रामचंद्रांघ्रिं स्मारं स्मारं सुमंत्रिणः
धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया । यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम्