शौनक उवाच। कृष्णप्राप्तिः पुरा कस्य करस्य प्रतिपालनात् । दक्षिणस्य मुने ब्रूहि श्रोतुमिच्छामि सादरात्
सूत उवाच। पुरा किंचित्पुरे शूद्रो नाम्नासीद्वीरविक्रमः । बह्वाशी पृथुलांगश्च बहुवक्तातिसुंदरः
धनवान्पुत्रवान्सभ्यो विद्वान्सर्वजनप्रियः । विप्राणामतिथीनां च पूजकः सर्वदैव तु
पितृभक्तो द्विजश्रेष्ठ प्रतिज्ञापालकः सदा । वाचां गुरुजनानां च पालको हरिसेवकः
एकदा सुंदरो गेहं श्वपचस्तस्य छद्मना । प्राप्तो धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः
ब्राह्मण उवाच। शृणु मे वचनं धीर मम जाया मृता शुभा । किं करोमि क्व गच्छामि कथयाद्यानुकंपया
विवाहं यो जनः कुर्याद्ब्राह्मणं च विशेषतः । किं च दानैः किं च तीर्थैः किं यज्ञैर्व्रतकोटिभिः
इति श्रुत्वा त्वसौ विप्रं चोक्तवान्वीरविक्रमः । शृणु मे वचनं ब्रह्मन्बालास्ति मम कन्यका
यदिच्छा ते भवेद्विप्र दास्यामि विधिपूर्वकम् । नय मे दक्षिणं हस्तं दास्यामि चान्यथा नहि
तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करम् । श्वपचो हर्षयुक्तो वै प्रोवाच वचनं त्विति
ब्राह्मण उवाच। कृत्वा शुभ क्षणं मह्यं देहि कन्यां शुभान्विताम् । विलंबे बहुविघ्नं स्यादिति शास्त्रेषु निश्चितम्
वीरविक्रम उवाच। तुभ्यं श्वः कन्यकां ब्रह्मन्दास्यामि नास्ति चान्यथा । दक्षिणं च करं दत्वा न कुर्यात्पुरुषाधमः
सूत उवाच। ब्राह्मणं कृष्णशर्माणं चाहूयाकथयन्मुने । पुरोहितमिदं सर्वं प्रोवाच संविदं द्विज
कथं विप्राय ते कन्यां शूद्राय दातुमिच्छसि । अज्ञातायाकुलीनाय न ददस्व विशेषतः
ऊचुस्तज्जातयः सर्वे जनकाद्यास्तपोधन । अस्माकं वचनं तात शृणुष्व वीरविक्रम
न ज्ञायते कुलं यस्य देशगोत्रधनं तथा । शीलं वयस्तस्य कन्या स्वजनैर्न च दीयते
स उवाच द्विजश्रेष्ठ दत्तं मे दक्षिणं करम् । कदाचिदन्यथाकर्तुं न शक्नोमि च सर्वथा
इत्युक्त्वा तान्स विप्राय कन्यां दातुं प्रचक्रमे । दृष्ट्वेति ज्ञातयः सर्वे विस्मयमद्भुतं ययुः
सत्यं तद्वचनं श्रुत्वा शंखचक्रगदाधरः । आविर्बभूव सहसा चारुह्य गरुडं मुने
श्रीभगवानुवाच। धन्यं ते च कुलं धर्मोधन्यस्ते जननी पिता । धन्यं ते वचनं सत्यं धन्यं ते दक्षिणं करम्
धन्यं कर्म्म च ते जन्म त्रैलोक्ये नैव विद्यते । एवं ते कर्मणा साधो चोद्धारं कुरुषे कुलम्
सूत उवाच। एवं ब्रुवति श्रीकृष्णे विमानं स्वर्णनिर्मितम् । आगतं हरिगणैर्युक्तं सर्वत्र गरुडध्वजम्
सर्वं तस्य कुलं ब्रह्मन्स श्वपाकपुरोहितम् । रथे चारोपयामास शंखपद्मधरः स्वयं
गृहीत्वा तान्हरिः सर्वान्गतो वैकुंठमंदिरम् । तत्र तस्थौ चिरं ते च कृत्वा भोगं सुदुर्ल्लभम्
वचनं लंघयेद्यस्तु यस्तु वा दक्षिणं करम् । सकुलो निरयं याति सत्यं सत्यं वदाम्यहम्
तस्यान्नं तु जलं ब्रह्मन्न ग्राह्यं पितृदैवतैः । त्यक्त्वा धर्मो गृहं तस्य भीत्या याति द्विजोत्तम
दत्वाशां यो जनः कुर्यान्नैराश्यं चैव मूढधीः । स स्वकान्कोटिपुरुषान्गृहीत्वा नरकं व्रजेत्
वचनं लंघयेद्यस्तु धर्मस्तस्य विलंघति । नृपाग्नितस्करैर्विप्र सत्यं सत्यं सुनिश्चितम्
स्वर्गोत्तरमिमं सम्यक्श्रुत्वा स्वर्गोत्तरं व्रजेत् । जीवन्मुक्तस्त्विहामुत्र कृष्णाख्यं धाम चोत्तमम्
श्रीगणेशाय नमः। श्रीकुलदेवतायै नमः। श्रीगुरुचरणारविंदाभ्यां नमः । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवींसरस्वतीं व्यासं ततो जयमुदीरयेत्