अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात्
ये शृण्वंति पुराणानि कोटिजन्मार्जितं खलु । पापजालं तु ते हत्वा गच्छंति हरिमंदिरम्
पुराणवाचकं विप्रं पूजयेद्भक्तिभावतः । गोभूहिरण्यवस्त्रैश्च गंधपुष्पादिभिर्मुने
कांस्यैर्विनिर्मितं पात्रं जलपात्रं मुदान्वितः । कर्णकुंडलकं चैव मुद्रिकां स्वर्णनिर्मिताम्
आसनं तु तथा दद्यात्पुष्पमाल्यं तपोधन । वित्तशाठ्यं न कुर्वीत दानं हीनफलं यतः
पुराणं वाचयेद्विप्र सर्वकामार्थसिद्धये । सुवर्णं रजतं वस्त्रं पुष्पमाल्यं तु चंदनम्
दद्याद्यो पुस्तकं भक्त्या सगच्छेद्धरिमंदिरम् । कुर्वंति विधिनानेन संपूर्णं पुस्तकं च ये । तेषां नामानि लिंपेत चित्रगुप्तोऽर्चनाद्द्विज
शौनक उवाच। श्रोतुमिच्छामि ते प्राज्ञ कथयस्व समूलकम् । प्रतिज्ञापालने पुण्यं खंडने किं च किल्बिषम्
अनृते शपथे किं वा सत्ये किंचिद्भवेन्मुने । दक्षिणं किंकरं दत्वा कृपां कृत्वा कृपार्णव
सूत उवाच। शृणुष्व मुनिशार्दूल कथयामि समूलतः । वैष्णवानां त्वमग्र्योऽसि सर्वलोकहिते रतः
धेनूनां तु शतं दत्त्वा यत्फलं लभते नरः । तस्मात्कोटिगुणं पुण्यं प्रतिज्ञापालने द्विज
प्रतिज्ञाखंडनान्मूढो निरयं याति दारुणम् । शतमन्वंतरं यावत्पच्यते नात्र संशयः
ततोऽत्र जन्म चासाद्य निर्धनस्य निकेतने । अन्नवस्त्रैर्विहीनः स्या क्लेशी चापि स्वकर्मणा
सत्येन शपथं कुर्याद्देवाग्निगुरुसन्निधौ । तावद्दहति वै गात्रं विष्णोर्वंशो न लुप्यते
मिथ्यायां शपथे विप्र किमहं वच्मि सांप्रतम् । शतमन्वंतरं विप्र निरयं मिथ्यया किमु
निर्माल्यं श्रीहरेः स्पृष्ट्वा सत्येन मुनिपुंगव । गृहीत्वा पुरुषान्सप्त पच्यते निरये चिरम्
कदाचिज्जन्म संप्राप्य कुष्ठी च प्रतिजन्मनि । सत्येनैवं भवेद्विप्र अनृते वै किमुच्यते
यो मर्त्यो दक्षिणं दत्वा करं तत्प्रतिपाल्यते । तस्य प्राप्तिर्भवेत्कृष्णः सत्यं सत्यं वदाम्यहम्
करं दत्त्वा तु यो मर्त्यो वचनस्य च पालनम् । तावन्न कुर्यात्पितरः प्राप्नुवंति च यातनाम्
स्वयं तु मुनिशार्दूल निरयं चातिदारुणम् । उद्धारं कोटिपुरुषैर्मृतो याति न संशयः
शौनक उवाच। कृष्णप्राप्तिः पुरा कस्य करस्य प्रतिपालनात् । दक्षिणस्य मुने ब्रूहि श्रोतुमिच्छामि सादरात्
सूत उवाच। पुरा किंचित्पुरे शूद्रो नाम्नासीद्वीरविक्रमः । बह्वाशी पृथुलांगश्च बहुवक्तातिसुंदरः
धनवान्पुत्रवान्सभ्यो विद्वान्सर्वजनप्रियः । विप्राणामतिथीनां च पूजकः सर्वदैव तु
पितृभक्तो द्विजश्रेष्ठ प्रतिज्ञापालकः सदा । वाचां गुरुजनानां च पालको हरिसेवकः
एकदा सुंदरो गेहं श्वपचस्तस्य छद्मना । प्राप्तो धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः
ब्राह्मण उवाच। शृणु मे वचनं धीर मम जाया मृता शुभा । किं करोमि क्व गच्छामि कथयाद्यानुकंपया
विवाहं यो जनः कुर्याद्ब्राह्मणं च विशेषतः । किं च दानैः किं च तीर्थैः किं यज्ञैर्व्रतकोटिभिः
इति श्रुत्वा त्वसौ विप्रं चोक्तवान्वीरविक्रमः । शृणु मे वचनं ब्रह्मन्बालास्ति मम कन्यका
यदिच्छा ते भवेद्विप्र दास्यामि विधिपूर्वकम् । नय मे दक्षिणं हस्तं दास्यामि चान्यथा नहि
तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करम् । श्वपचो हर्षयुक्तो वै प्रोवाच वचनं त्विति