श्रीनारद उवाच। सनत्कुमार प्रिय साहसानां विवेकवैराग्यविवर्जितानाम् । देहप्रियार्थात्मपरायणानां मुक्तापराधाः प्रभवंति नः कथम्
श्रीसनत्कुमार उवाच। जाते नामापराधे तु प्रमादे तु कथंचन । सदा संकीर्तयन्नाम तदेकशरणो भवेत्
नामापराधयुक्तानां नामान्येव हरंत्यघम् । अविश्रांति प्रयुक्तानि तान्येवार्थ कराणि यत्
नामैकं यस्य चिह्नं स्मरणपथगतं श्रोत्रमूलं गतं वा । शुद्धं वाऽशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम् । तच्चेद्देहद्रविणजनितालोभपाखण्ड मध्ये । निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र
इदं रहस्यं परमं पुरा नारद शंकरात् । श्रुतं सर्वाशुभहरमपराधनिवारकम्
विदुर्विष्ण्वभिधानं ये ह्यपराधपरा नराः । तेषामपि भवेन्मुक्तिः पठनादेव नारद
नाम्नो माहात्म्यमखिलं पुराणे परिगीयते । ततः पुराणमखिलं श्रोतुमर्हसि मानद
पुराणश्रवणे श्रद्धा यस्य स्याद्भ्रातरन्वहम् । तस्य साक्षात्प्रसन्नः स्याच्छिवो विष्णुश्च सानुगः
यत्स्नात्वा पुष्करे तीर्थे प्रयागे सिंधुसंगमे । तत्फलं द्विगुणं तस्य श्रद्धया वै शृणोति यः
ये पठंति पुराणानि शृण्वंति च समाहिताः । प्रत्यक्षरं लभंत्येते कपिलादानजं फलम्
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात्
ये शृण्वंति पुराणानि कोटिजन्मार्जितं खलु । पापजालं तु ते हत्वा गच्छंति हरिमंदिरम्
पुराणवाचकं विप्रं पूजयेद्भक्तिभावतः । गोभूहिरण्यवस्त्रैश्च गंधपुष्पादिभिर्मुने
कांस्यैर्विनिर्मितं पात्रं जलपात्रं मुदान्वितः । कर्णकुंडलकं चैव मुद्रिकां स्वर्णनिर्मिताम्
आसनं तु तथा दद्यात्पुष्पमाल्यं तपोधन । वित्तशाठ्यं न कुर्वीत दानं हीनफलं यतः
पुराणं वाचयेद्विप्र सर्वकामार्थसिद्धये । सुवर्णं रजतं वस्त्रं पुष्पमाल्यं तु चंदनम्
दद्याद्यो पुस्तकं भक्त्या सगच्छेद्धरिमंदिरम् । कुर्वंति विधिनानेन संपूर्णं पुस्तकं च ये । तेषां नामानि लिंपेत चित्रगुप्तोऽर्चनाद्द्विज
शौनक उवाच। श्रोतुमिच्छामि ते प्राज्ञ कथयस्व समूलकम् । प्रतिज्ञापालने पुण्यं खंडने किं च किल्बिषम्
अनृते शपथे किं वा सत्ये किंचिद्भवेन्मुने । दक्षिणं किंकरं दत्वा कृपां कृत्वा कृपार्णव
सूत उवाच। शृणुष्व मुनिशार्दूल कथयामि समूलतः । वैष्णवानां त्वमग्र्योऽसि सर्वलोकहिते रतः
धेनूनां तु शतं दत्त्वा यत्फलं लभते नरः । तस्मात्कोटिगुणं पुण्यं प्रतिज्ञापालने द्विज
प्रतिज्ञाखंडनान्मूढो निरयं याति दारुणम् । शतमन्वंतरं यावत्पच्यते नात्र संशयः
ततोऽत्र जन्म चासाद्य निर्धनस्य निकेतने । अन्नवस्त्रैर्विहीनः स्या क्लेशी चापि स्वकर्मणा
सत्येन शपथं कुर्याद्देवाग्निगुरुसन्निधौ । तावद्दहति वै गात्रं विष्णोर्वंशो न लुप्यते
मिथ्यायां शपथे विप्र किमहं वच्मि सांप्रतम् । शतमन्वंतरं विप्र निरयं मिथ्यया किमु
निर्माल्यं श्रीहरेः स्पृष्ट्वा सत्येन मुनिपुंगव । गृहीत्वा पुरुषान्सप्त पच्यते निरये चिरम्
कदाचिज्जन्म संप्राप्य कुष्ठी च प्रतिजन्मनि । सत्येनैवं भवेद्विप्र अनृते वै किमुच्यते
यो मर्त्यो दक्षिणं दत्वा करं तत्प्रतिपाल्यते । तस्य प्राप्तिर्भवेत्कृष्णः सत्यं सत्यं वदाम्यहम्
करं दत्त्वा तु यो मर्त्यो वचनस्य च पालनम् । तावन्न कुर्यात्पितरः प्राप्नुवंति च यातनाम्
स्वयं तु मुनिशार्दूल निरयं चातिदारुणम् । उद्धारं कोटिपुरुषैर्मृतो याति न संशयः