तत्रैको वायसो ह्यासीत्कृतनीडो वनस्पतौ । तस्याधस्तान्महासर्पं कोटरेव सति स्म ह
एकदा तस्य काकस्य भार्यांडद्वयमालये । प्रतिमुच्य गता क्वापि न नीडे स्वे समागता
स्वयमेव स काकस्तु पालयन्नंडकद्वयम् । तामेव शिंशपामुच्चैरध्यतिष्ठन्महीपते
अथैकदा निशीधे तु महावात्या समागता । अभनक्शिंशपां राजन्मूलादपि दृढादपि
वात्यया पात्यमानाया शिंशपायास्तदा तले । चूर्णितौ काकसर्पौ तौ गतप्राणौ बभूवतुः
दिव्यांगास्ते त्रयो भूत्वा शिंशपा वायसादयः । विमानत्रयमारूढा जग्मुः श्रीपतिकेतनम्
शिबिरुवाच- देवर्षे केन पुण्येन प्राप्ता तैर्मुक्तिदा पुरी । आसंस्ते के त्रयः पूर्वं सर्वं कथय नारद
नारद उवाच-। कुरुजांगलदेशीयो ब्राह्मणः श्रवणाभिधः । तस्य भार्या कुडा नाम भ्राताभूच्च कुरंटकः
अस्नातभोक्ता नित्यं स कवलो मिष्टभुग्रहः । श्रवणस्तेन दोषेण बभूव ग्रामवायसः
कुरंटकस्तु तद्भ्राता नास्तिकोऽभवदुल्बणः । श्रुतिस्मृतिपथोच्छेत्ता देवतानां च निंदकः
तेन दोषेण स मृतो ह्यभवत्कालकुंडली । सा कुंडा श्रवणस्य स्त्री बभूवोभयदोषभाक्
अतः सा स्थावरत्वं हि लब्ध्वासीदुभयाश्रया । एतत्ते कथितं भूप तद्वृत्तं पूर्वजन्मनि
अतः परं प्रवक्ष्यामि तेषां पुण्यं यतस्त्रयः । प्रापुस्तेन पुरीं रम्यां काशीं वैश्वेश्वरीं नृप
ग्रामांतरादेकदा तौ प्रत्यायातौ निजालयम् । कस्यचित्पथिकस्याथ कूपमग्नां पयस्विनीम्
अवलोक्य तदुद्धारं चक्रतुस्तेन नोदितौ । ताभ्यांगदितमाकर्ण्य कुंडा साध्वित्यभाषत
ते त्रयस्तेनपुण्येन मरणं प्राप्य दुर्लभम् । इंद्रप्रस्थतटस्थायां काश्यां वैकुंठमारुहन्
इयं काशी महेशस्य पुरी यद्यपि भूपते । तथाप्यस्यां मृतं जंतुर्वैकुंठे स्यात्सुखी हरेः
एतत्ते कथितं राजन्काश्या माहात्म्यमुत्तमम् । किमन्यच्छ्रोतुमिच्छा ते विद्यते तद्वदस्व मे
शिबिरुवाच- मुने त्वया महेशस्य क्षेत्रत्रयमुदीरितम् । काशी च शिवकांची च गोकर्णं च तथापरम्
एकस्य महिमा प्रोक्तो त्वया काश्या महामुने । गोकर्णशिवकांच्योश्च कथ्यतां यदि विद्यते
नारद उवाच-। गोकर्णं केवलं शैवं क्षेत्रं परमपावनम् । तस्मिन्मृतो नरो राजन्शिवः स्यान्नात्र संशयः
स्थले जलेंतरिक्षे च जंतुस्तत्र मृयेत चेत् । तदा कैलासशिखरो शिवः संभूय दीव्यति
अत्र गोकर्णतीर्थे स्यान्मृतस्य न पुनर्भवः । शिवेन स समं राजन्मुक्तिं यास्यति कर्हिचित्
अस्यापि तव माहात्म्यं गोकर्णस्य महामते । वर्णयामि यदाकर्णि मया ब्रह्ममुखात्प्रभो
प्रयागादेकगव्यूतौ गुरुतीर्थसमीपगः । मर्यादापर्वतो योऽयं दृश्यते पुण्यदर्शनः
तत्रैकः कर्कटो नाम भिल्ल आसीत्सुदारुणः । तस्य भार्या जरा नाम सा जघ्ने पतिपंचकम्
सा जरा विषसंयुक्तं षष्ठं कर्कटकं तदा । अकरोन्मोदकं हंतुं तदा तेन स्वसुः श्रुतम्
निजाया मुखतो राजन्भिल्लेन च महात्मना । बालां तां हंतुमारेभे कर्कटो भृशदारुणः
खङ्गपाणिर्यदा याति तद्वधाय स भिल्लपः । यावत्तावत्तु सा यायाज्ज्ञात्वा निजवधोद्यमम्
वनमभ्यद्रवद्भीता निजप्राणपरीप्सया । तामनुद्रवता तेन कर्कटेन महीपते