अतः पापिष्ठ चान्नानि न गृह्णंति मनीषिणः । गृह्णंति मोहाद्ये मूढा भवंति पापभागिनः
कुर्याद्भूमिष्ठमुदकं चैकं भो द्विजसत्तम । सर्वपापैर्विनिर्मुक्तो व्रजेत्स हरिमंदिरम्
प्रयत्नेन द्विजश्रेष्ठ कर्त्तव्यो धनसंचयः । संचितं च धनं ब्रह्मन्दानकर्मणि विक्षिपेत्
रणंति ये च कार्पण्याद्धनं ते चातिदुःखिनः । अंते सर्वधनं त्यक्वा निःस्वा गच्छंति भो मुने
मानवा ये सदा दानं दत्त्वा दत्त्वा दरिद्रति । दरिद्रास्तेन विज्ञेया नरलोके महेश्वराः
परलोके द्विजव्याघ्र साधुसंयमवर्जिते । निर्दये बंधुहीने च न दत्तं नोपतिष्ठते
स्थिते धने नरो यो वै नाश्नाति न ददाति सः । दरिद्र इव विज्ञेयः प्रेत्य निश्वासमुत्सृजेत्
तपसोऽपि वरं दानं प्रोक्तं च तत्त्वदर्शिभिः । अतो यत्नाद्द्विजश्रेष्ठ दानकर्म समाचरेत्
दाता दानं न दद्याद्वै समुत्सृज्य द्विजातये । स याति निरयं घोरं सर्वजंतुभयावहम्
दानं दाता प्रतिग्राही न स्मरेच्च न याचते । निरये चोभयोर्वासो यावच्चंद्र दिवाकरौ
ब्रह्महत्यादि पापानि यानि वै द्विजसत्तम । तानि दानेन हन्यंते तस्माद्दानं समाचरेत्
शौनक उवाच। श्रीपदं विष्णुचरितं सर्वोपद्रवनाशनम् । सर्वपापक्षयकरं दुष्टग्रहनिवारणम्
विष्णुसान्निध्यदं चैव चतुर्वर्गफलप्रदम् । यः शृणोति नरो भक्त्या चांते याति हरेर्गृहम्
नामोच्चारणमाहात्म्यं श्रूयते महदद्भुतम् । यदुच्चारणमात्रेण नरो यायात्परं पदम्
तद्वदस्वाधुना सूत विधानं नामकीर्तने । सूत उवाच। शृणु शौनक वक्ष्यामि संवादं मोक्षसाधनम्
नारदः पृष्टवान्पूर्वं कुमारं तद्वदामि ते । एकदा यमुनातीरे निविष्टं शांतमानसम्
सनत्कुमारं पप्रच्छ नारदो रचिताञ्जलि । श्रुत्वा नानाविधान्धर्मान्धर्मव्यतिकरांस्तथा
श्रीनारद उवाच। योऽसौ भगवता प्रोक्तो धर्मव्यतिकरो नृणाम् । कथं तस्य विनाशः स्यादुच्यतां भगवत्प्रिय
श्रीसनत्कुमार उवाच। शृणु नारद गोविंद प्रिय गोविंदधर्मवित् । यत्पृष्टं लोकनिर्मुक्तिकारणं तमसः परम्
सर्वाचारविवर्जिताः शठधियो व्रात्या जगद्वञ्चकाः । दंभाहंकृतिपानपैशुनपराः पापाश्च ये निष्ठुराः
ये चान्ये धनदारपुत्रनिरताः सर्वेऽधमास्तेऽपि हि । श्रीगोविंदपदारविंदशरणाः शुद्धा भवंति द्विज
तमपि देवकरं करुणाकरस्थविरजंगममुक्तिकरं परम् । अतिचरंत्यपराधपरा जना य इह तान्वपति ध्रुवनाम हि
सर्वापराधकृदपि मुच्यते हरिसंश्रयः । हरेरप्यपराधान्यः कुर्याद्द्विपदपांसनः
नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः । नाम्नो हि सर्वसुहृदो ह्यपराधात्पतत्यधः
श्रीनारद उवाच। के तेऽपराधा विप्रेंद्र नाम्नो भगवतः कृताः । विनिघ्नंति नृणां कृत्यं प्राकृतं ह्यानयंति च
श्रीसनत्कुमार उवाच। सतां निंदा नाम्नः परममपराधं वितनुते । यतः ख्यातिं यांतं कथमु सहते तद्विगर्हाम् । शुभस्य* श्रीविष्णोर्य इह गुणनामादिसकलं । धियाभिन्नं पश्येत्स खलु हरिनामाहितकरः १५ *[कहीं-(शिवस्य)]। गुरोरवज्ञा श्रुतिशास्त्रनिंदनं तथार्थवादो हरिनाम्नि कल्पनम् । नामापराधस्य हि पापबुद्धिर्न विद्यते तस्य यमैर्हि शुद्धिः
धर्मव्रतत्याग हुतादि सर्वशुभक्रिया साम्यमपि प्रमादः । अश्रद्दधानो विमुखोऽप्यशृण्वन्यश्चोपदेशः शिवनामापराधः
श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितोऽधमः । अहं ममादि परमो नाम्नि सोऽप्यपराधकृत्
एवं नारद शंकरेण कृपया मह्यं मुनीनां परं । प्रोक्तं नामसुखावहं भगवतो वर्ज्यं सदा यत्नतः । ये ज्ञात्वापि न वर्जयंति सहसा नाम्नोऽपराधान्दश । क्रुद्धा मातरमप्यभोजनपराः खिद्यंति ते बालवत्
अपराधविमुक्तो हि नाम्नि जप्तं सदा चर । नाम्नैव तव देवर्षे सर्वं सेत्स्यति नान्यतः