राजमाषादिकं नित्यं वर्जयेत्कार्तिके व्रती । जंबीरमामिषं चूर्णमन्नं पर्य्युषितं द्विज
धान्ये मसूरिका प्रोक्ता गवां दुग्धमनामिषम् । लवणं भूमिजं विप्र प्राण्यङ्गमामिषं खलु
द्विजक्रीता रसाः सर्वे जलं चाल्पसरः स्थितम् । ब्रह्मचर्यं तुर्यकाले पत्रावल्यां च भोजनम्
कुर्याद्वै द्विजशार्दूल तैलाभ्यंगं च वर्जयेत् । छत्राकं नालिकं हिंगुं पलांडुं पूतिकादलम्
लशुनं मूलकं शिग्रुं तथैव तुंबिकाफलम् । कपित्थं चैव वृंताकं कूष्मांडं कांस्यभोजनम्
द्विपाचितं सूतिकान्नं मत्स्यं शय्यां रजस्वलाम् । द्विस्त्रिश्चान्नं स्त्रियः संगं वर्जयेत्कार्तिकव्रती
धात्रीफलं गृही विप्र रवौ तत्सर्वदा त्यजेत् । कूष्मांडे धनहानिः स्यात्बृहत्यां न स्मरेद्धरिम्
पटोले तु न वृद्धिः स्याद्बलहानिश्च मूलके । कलंकी जायते बिल्वे तिर्यग्योनिश्च निंबुके
ताले शरीरनाशः स्यान्नारिकेले च मूर्खता । तुंबी गोमांसतुल्या स्याद्गोवधं स्यात्कलिंदके
शिंबी पापकरा प्रोक्ता पूतिका ब्रह्मघातिका । वार्ताक्यां सुतनाशः स्याच्चिररोगी च माषके
मांसे च बहुपापं स्याद्वर्जयेत्प्रतिपदादिषु । यत्किंचिद्वर्जयेद्योऽन्नं श्रीहरे प्रीतये द्विज
तत्पुनर्भूसुरे दत्वा व्रतांते तस्य भोजनम् । कार्तिकव्रतिनं विप्र यथोक्तकारिणं नरम्
यमदूताः पलायंते सिंहं दृष्ट्वा यथा गजाः । श्रेष्ठं विष्णुव्रतं विप्र तत्तुल्या न शतं मखाः
कृत्वा क्रतुं व्रजेत्स्वर्गं वैकुंठं कार्तिकव्रती । यत्किंचिद्दुष्कृतं विप्र मनोवाक्कायकर्मजम्
दृष्ट्वा तु विलयं याति कार्तिकव्रतिनं क्षणात् । कार्त्तिकव्रतिनः पुण्यं ब्रह्मा चैव चतुर्मुखः
न समर्थो भवेद्वक्तुं यथोक्तव्रतकारिणः । यत्कृत्वा कलुषं सर्वं व्रजेद्विप्र दशो दिशः
क्व गच्छामि क्व तिष्ठामि कार्त्तिकव्रतिनो भयात् । पौर्णमास्यां यथाशक्ति चान्नवस्त्रादिकं द्विज
दद्याद्वै श्रीहरेः प्रीत्यै ब्राह्मणानपि भोजयेत् । रात्रौ जागरणं कुर्यान्नृत्यगीतादिभिर्व्रती । य इदं शृणुयाद्भक्त्या तस्य पापं प्रणश्यति
शौनकउवाच। माहात्म्यं ब्रूहि सर्वज्ञ शृण्वतां पापनाशनम् । सर्वप्राणिहितार्थाय तुलस्या अनुकंपया
सूत उवाच। तुलस्याः परिसरे यस्य काननं तिष्ठति द्विज । गृहस्य तीर्थरूपत्वान्नायांति यमकिंकराः
तुलस्याः काननं विप्र सर्वपापहरं शुभम् । रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम्
रोपणं पालनं सेवां दर्शनं स्पर्शनं तु यः । कुर्य्यात्तस्य प्रणष्टं स्यात्सर्वपापं द्विजोत्तम
कोमलैस्तुलसीपत्रैरर्चयंति हरिं तु ये । कालस्य सदनं विप्र ते न यांति महाशयाः
गंगाद्याः सरितः श्रेष्ठा विष्णु ब्रह्म महेश्वराः । देवैस्तीर्थैः पुष्कराद्यैस्तिष्ठंति तुलसीदले
यो युक्तस्तुलसीपत्रैः पापी प्राणान्विमुञ्चति । विष्णोर्निकेतनं याति सत्यमेतन्मयोदितम्
तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि । विमुंचति नरः प्राणान्स याति हरिमन्दिरम्
यो नरो धारयेद्विप्र तुलसीकाष्ठचंदनम् । तस्याङ्गं न स्पृशेत्पापं स याति परमं पदम्
तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः । अप्यशौचोप्यनाचारो भक्त्या याति हरेर्गृहम्
धात्रीफलकृतामाला तुलसीकाष्ठसंभवा । दृश्यते यस्य देहे तु स वै भागवतो नरः
तुलसीदलजां मालां कण्ठस्थां वहते तु यः । विष्णूच्छिष्टां विशेषेण स नमस्यो दिवौकसाम्