राजहंसयुते विप्र विमाने स्वर्णनिर्मिते । आरूढा सा गता तैस्तु वेष्टिता विष्णुमंदिरम्
तत्र तस्थौ चिरं भोगं कृत्वा सा वै यथेप्सितम् । या कुर्यात्कार्त्तिके विप्र राधादामोदरार्चनम्
याति पूजा त्यक्तपापाद्गोलोकाख्यं मनोहरम् । य इदं शृणुयाद्भक्त्या या च नारी समाहिता । कोटिजन्मार्जितं पापं तस्य तस्या विनश्यति
शौनक उवाच। कथयस्व मुने सूत सर्वमासोत्तमस्य च । कार्तिकस्य विधिं सम्यङ्नियमान्वक्तुमर्हसि
सूत उवाच। आश्विनस्य द्विजश्रेष्ठ पौर्णमास्यां समाहितः । कार्तिकस्य व्रतं कुर्याद्यावदुद्बोधिनी भवेत्
दिवा विप्र नरः कुर्यान्मलमूत्रमुदङ्मुखः । भवेन्मौनी च सर्वज्ञ रात्रौ चेद्दक्षिणामुखः
पथ्यंभसि च गोष्ठेषु श्मशाने वल्मिके द्विज । कुर्यादुत्सर्जनं नैव व्रती मूत्रपुरीषयोः
अत्युत्तमेषु स्थानेषु मलमूत्रं न कारयेत् । शुद्धां मृदं गृहीत्वाथ वामं प्रक्षालयेत्करम्
अद्भिर्मृदापि शुद्ध्यर्थं पूर्वं विंशतिसंख्यया । एका लिंगे गुदे पंच तथा वामकरे दश
उभयोर्दश दातव्या पादयोश्च त्रिभिस्त्रिभिः । मुखशुद्धिं ततः कुर्य्यात्संकल्पं स्नपनस्य च
हृदि दामोदरं ध्यात्वा इमं मंत्रं ततो वदेत् । कार्तिकेहं करिष्यामि प्रातःस्नानं जनार्द्दन
दामोदरस्य प्रीत्यर्थं राधया पापनाशनं । नमः पंकजनाभाय श्रीकृष्णजलशायिने
नमस्ते राधया सार्द्धं गृहाणार्घं प्रसीद मे । स्नानं कुर्य्यात्ततो विप्र तिलकं तु यथाविधि
ऊर्ध्वपुंड्रविहीनस्तु किंचित्कर्मकरोति यः । निष्फलं कर्म तत्सर्वं सत्यमेतन्मयोच्यते
यच्छरीरं मनुष्याणामूर्ध्वपुंड्रं विना कृतम् । तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत्
ऊर्ध्वपुंड्रं मृदा शुभ्रं ललाटे यस्य दृश्यते । चांडालोऽपि विशुद्धात्मा पूज्य एव न संशयः । अच्छिद्रमूर्ध्वपुंड्रं तु ये कुर्वंति नराधमाः
तेषां ललाटे सततं शुनःपादो न संशयः । प्रातःकालोदितं कर्म्म समाप्य हरिवल्लभाम्
पूजयेद्भक्तितो विप्र तुलसीं पापनाशिनीम् । पौराणीं तु कथां श्रुत्वा श्रीहरेः स्थिरमानसः
ततो विप्रं व्रती भक्त्या पूजयेत्तं यथाविधि । परासनं परान्नं च परशय्यां परांगनाम्
सर्वदा वर्जयेद्विप्र कार्त्तिके च विशेषतः । सौवीरकं तथा माषानामिषं च तथा मधु
राजमाषादिकं नित्यं वर्जयेत्कार्तिके व्रती । जंबीरमामिषं चूर्णमन्नं पर्य्युषितं द्विज
धान्ये मसूरिका प्रोक्ता गवां दुग्धमनामिषम् । लवणं भूमिजं विप्र प्राण्यङ्गमामिषं खलु
द्विजक्रीता रसाः सर्वे जलं चाल्पसरः स्थितम् । ब्रह्मचर्यं तुर्यकाले पत्रावल्यां च भोजनम्
कुर्याद्वै द्विजशार्दूल तैलाभ्यंगं च वर्जयेत् । छत्राकं नालिकं हिंगुं पलांडुं पूतिकादलम्
लशुनं मूलकं शिग्रुं तथैव तुंबिकाफलम् । कपित्थं चैव वृंताकं कूष्मांडं कांस्यभोजनम्
द्विपाचितं सूतिकान्नं मत्स्यं शय्यां रजस्वलाम् । द्विस्त्रिश्चान्नं स्त्रियः संगं वर्जयेत्कार्तिकव्रती
धात्रीफलं गृही विप्र रवौ तत्सर्वदा त्यजेत् । कूष्मांडे धनहानिः स्यात्बृहत्यां न स्मरेद्धरिम्
पटोले तु न वृद्धिः स्याद्बलहानिश्च मूलके । कलंकी जायते बिल्वे तिर्यग्योनिश्च निंबुके
ताले शरीरनाशः स्यान्नारिकेले च मूर्खता । तुंबी गोमांसतुल्या स्याद्गोवधं स्यात्कलिंदके
शिंबी पापकरा प्रोक्ता पूतिका ब्रह्मघातिका । वार्ताक्यां सुतनाशः स्याच्चिररोगी च माषके