भर्त्सनां तु यथाकामं कुर्य्याच्चाहं सुनिंदिता । किंचिन्न वदसि स्वामिन्नेनो यन्मे न विद्यते
सूत उवाच। ननाम चरणे तस्य गतान्यनगरं प्रति । तत्र प्रविष्टा सा योषिद्दृष्ट्वा पुण्यजनान्बहून्
ऊर्जे स्नानपरान्प्रातर्नर्मदायां च वैष्णवान् । तत्र नद्यां स्त्रियश्चापि राधादामोदरं द्विज
सपर्यां च कृतां चैव शंखनादैर्महोत्सवैः । गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः
मुखवासैर्भक्तियुक्ता दृष्ट्वा सा विनयान्विता । पप्रच्छ ब्रूत यूयं मे किमेतत्क्रियते स्त्रियः
स्त्रिय ऊचुः - सर्वमासोत्तमे चोर्जे राधादामोदरौ शुभौ । पूजां कृत्वा वयं मातः सर्वपापहरां शुभाम्
कोटिजन्मार्जितं पापं नष्टं प्राप्तं निकेतनम् । सपर्य्यामामिषं त्यक्त्वा कृत्वा सा च हरेर्द्दिने
निधनत्वं पौर्णमास्यां गता सा निर्मला द्विज । किंकराश्चागतास्तूर्णं यमस्य निलयं प्रति
नेतुं तां क्रोधसंयुक्ता बबंधुश्चर्मरज्जुभिः । तदागता विष्णुदूता विमानं स्वर्णनिर्मितम्
शंखचक्रगदापद्मधारिणो वनमालिनः । निजघ्नुश्चक्रधाराभिर्यमदूताः पलायिताः
राजहंसयुते विप्र विमाने स्वर्णनिर्मिते । आरूढा सा गता तैस्तु वेष्टिता विष्णुमंदिरम्
तत्र तस्थौ चिरं भोगं कृत्वा सा वै यथेप्सितम् । या कुर्यात्कार्त्तिके विप्र राधादामोदरार्चनम्
याति पूजा त्यक्तपापाद्गोलोकाख्यं मनोहरम् । य इदं शृणुयाद्भक्त्या या च नारी समाहिता । कोटिजन्मार्जितं पापं तस्य तस्या विनश्यति
शौनक उवाच। कथयस्व मुने सूत सर्वमासोत्तमस्य च । कार्तिकस्य विधिं सम्यङ्नियमान्वक्तुमर्हसि
सूत उवाच। आश्विनस्य द्विजश्रेष्ठ पौर्णमास्यां समाहितः । कार्तिकस्य व्रतं कुर्याद्यावदुद्बोधिनी भवेत्
दिवा विप्र नरः कुर्यान्मलमूत्रमुदङ्मुखः । भवेन्मौनी च सर्वज्ञ रात्रौ चेद्दक्षिणामुखः
पथ्यंभसि च गोष्ठेषु श्मशाने वल्मिके द्विज । कुर्यादुत्सर्जनं नैव व्रती मूत्रपुरीषयोः
अत्युत्तमेषु स्थानेषु मलमूत्रं न कारयेत् । शुद्धां मृदं गृहीत्वाथ वामं प्रक्षालयेत्करम्
अद्भिर्मृदापि शुद्ध्यर्थं पूर्वं विंशतिसंख्यया । एका लिंगे गुदे पंच तथा वामकरे दश
उभयोर्दश दातव्या पादयोश्च त्रिभिस्त्रिभिः । मुखशुद्धिं ततः कुर्य्यात्संकल्पं स्नपनस्य च
हृदि दामोदरं ध्यात्वा इमं मंत्रं ततो वदेत् । कार्तिकेहं करिष्यामि प्रातःस्नानं जनार्द्दन
दामोदरस्य प्रीत्यर्थं राधया पापनाशनं । नमः पंकजनाभाय श्रीकृष्णजलशायिने
नमस्ते राधया सार्द्धं गृहाणार्घं प्रसीद मे । स्नानं कुर्य्यात्ततो विप्र तिलकं तु यथाविधि
ऊर्ध्वपुंड्रविहीनस्तु किंचित्कर्मकरोति यः । निष्फलं कर्म तत्सर्वं सत्यमेतन्मयोच्यते
यच्छरीरं मनुष्याणामूर्ध्वपुंड्रं विना कृतम् । तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत्
ऊर्ध्वपुंड्रं मृदा शुभ्रं ललाटे यस्य दृश्यते । चांडालोऽपि विशुद्धात्मा पूज्य एव न संशयः । अच्छिद्रमूर्ध्वपुंड्रं तु ये कुर्वंति नराधमाः
तेषां ललाटे सततं शुनःपादो न संशयः । प्रातःकालोदितं कर्म्म समाप्य हरिवल्लभाम्
पूजयेद्भक्तितो विप्र तुलसीं पापनाशिनीम् । पौराणीं तु कथां श्रुत्वा श्रीहरेः स्थिरमानसः
ततो विप्रं व्रती भक्त्या पूजयेत्तं यथाविधि । परासनं परान्नं च परशय्यां परांगनाम्
सर्वदा वर्जयेद्विप्र कार्त्तिके च विशेषतः । सौवीरकं तथा माषानामिषं च तथा मधु