सूत उवाच। राधाकृष्णप्रिये चौर्जे प्रातःस्नानं समाचरेत् । राधादामोदरं भक्त्या कुर्यात्पूजां समाहिता
त्यक्त्वामिषादिकं ब्रह्मन्पतिसेवापरायणा । सा याति श्रीहरेः स्थानं गोलोकाख्यं सुदुर्ल्लभम्
राधादामोदराभ्यां या धूपदीपं तु कार्तिके । दद्यात्सा भवनं विष्णोर्याति वै त्यक्तपातकाः
योषिद्या कार्त्तिके विप्र दद्याद्वस्त्रं निकेतने । राधादामोदराभ्यां तु वसेत्सा श्रीहरेश्चिरम्
राधादामोदराभ्यां सा पुष्पं माल्यं सुवासितम् । कार्तिके मासि सा दद्याद्याति वैकुंठमंदिरम्
गंधं या चापि नैवेद्यं दद्याद्वै शर्करादिकम् । राधादामोदराभ्यां सा गच्छेद्वै विष्णुमंदिरम्
यत्किंचिद्यच्छति ब्रह्मन्कार्तिके च द्विजातये । राधादामोदरप्रीत्यै तस्याः पुण्याक्षयं भवेत्
या नारी कार्तिके भक्त्या राधादामोदरं द्विज । प्रातः सपर्यां सा याति न कुर्य्यान्निरयं चिरम्
कदाचिज्जन्मभूमौ सा विधवा प्रति जन्मनि । भवेच्चासाद्य पूर्व्वं वै चाप्रिया स्वामिनोऽपि च
पुरा त्रेतायुगे विप्र वृषलो नाम शंकरः । सौराष्ट्रदेशवासी च तस्य जाया कलिप्रिया
जाराकांक्षी सदा नाम्ना तृणवन्मन्यते पतिम् । असौ पतिर्न मे योग्यो मे स्वामी परपूरुषः
इति मत्वा सदा तस्मै चोच्छिष्टं तु ददाति वै । नीचसंगान्महामूढा मद्यमांसं चखाद ह
स्वामिनो भर्त्सनां नित्यं कुर्यात्कामं तु निष्ठुरा । पादरज्जुर्भवेच्चासौ कस्माद्वै न मृतोऽपि च
मृते तस्मिन्नहं भोगं करिष्यामि यदृच्छया । विचार्येति हृदा मूढा जारेणैकेन सा तदा
अन्यदेशं गमिष्यावः संकेतमकरोद्द्विज । सुप्तस्य स्वामिनो रात्रौ चासिना तद्गलं द्विज
छित्त्वा जारकृते सापि संकेतस्य स्थलं गता । आगतं जारपुरुषं द्वीपिना भक्षितं द्विज
दृष्ट्वा सा रोदनं कृत्वा मूर्च्छिता निपपात ह । चिरादाश्वस्य सा मूढा करुणं विललाप ह
कलिप्रियोवाच। स्वकीयं स्वामिनं हत्वा चागता परपूरुषम् । तं जारं स्वामिनं दैवात्शार्दूलो भक्षयन्मम । किं करोमि क्व गच्छामि विधात्रा वंचितास्म्यहम्
सूत उवाच। ततः कलिप्रिया ब्रह्मनागता स्वगृहं प्रति । लपने स्वामिनो दत्वा मुखं च विललाप सा
कलिप्रियोवाच। हा नाथ किं कृतं कर्म्म मया हंतातिदारुणम् । कं लोकं वा गमिष्यामि वद स्वामिन्मनाग्गिरम्
भर्त्सनां तु यथाकामं कुर्य्याच्चाहं सुनिंदिता । किंचिन्न वदसि स्वामिन्नेनो यन्मे न विद्यते
सूत उवाच। ननाम चरणे तस्य गतान्यनगरं प्रति । तत्र प्रविष्टा सा योषिद्दृष्ट्वा पुण्यजनान्बहून्
ऊर्जे स्नानपरान्प्रातर्नर्मदायां च वैष्णवान् । तत्र नद्यां स्त्रियश्चापि राधादामोदरं द्विज
सपर्यां च कृतां चैव शंखनादैर्महोत्सवैः । गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः
मुखवासैर्भक्तियुक्ता दृष्ट्वा सा विनयान्विता । पप्रच्छ ब्रूत यूयं मे किमेतत्क्रियते स्त्रियः
स्त्रिय ऊचुः - सर्वमासोत्तमे चोर्जे राधादामोदरौ शुभौ । पूजां कृत्वा वयं मातः सर्वपापहरां शुभाम्
कोटिजन्मार्जितं पापं नष्टं प्राप्तं निकेतनम् । सपर्य्यामामिषं त्यक्त्वा कृत्वा सा च हरेर्द्दिने
निधनत्वं पौर्णमास्यां गता सा निर्मला द्विज । किंकराश्चागतास्तूर्णं यमस्य निलयं प्रति
नेतुं तां क्रोधसंयुक्ता बबंधुश्चर्मरज्जुभिः । तदागता विष्णुदूता विमानं स्वर्णनिर्मितम्
शंखचक्रगदापद्मधारिणो वनमालिनः । निजघ्नुश्चक्रधाराभिर्यमदूताः पलायिताः