द्विजसेवानुरक्ता ये मद्यमांसविवर्जिताः । दान स्वकर्म्मनिरतास्ते ज्ञेया वृषलोत्तमाः
अज्ञानाद्भुंजते विप्र सूतके मृतके यदि । गायत्रीदशभिर्विप्रः सहस्रैश्च शुचिर्भवेत्
सहस्रैः क्षत्रियश्चैव वैश्यः पंचसहस्रकैः । पंचगव्यैर्भवेच्छुद्धो वृषलोऽपि तपोधन
आज्यं तु तोयं नीचस्य भांडस्थं दधि यः पिबेत् । अज्ञानतोऽपि यो वर्णः प्राजापत्यव्रतं चरेत्
दानं बहुतरं दद्याच्छुद्धो ह्यग्नौ यथाविधि । शूद्राणां नोपवासोऽपि दानेनैव विशुद्ध्यति
सशिखं वपनं कुर्यादहोरात्रोपवासतः । नीचैर्दंडादिभिश्चैव ताडितो यो नरो द्विज
प्राज्ञापत्यव्रतं कुर्य्याच्चांद्रायणव्रतं तु वा । सशिखं वपनं चैव पंचगव्यं पिबेत्ततः
गोद्वयं तु ततो दद्यादग्नौ चान्नादिकं हुतम् । मद्यपानं गृहे विप्र ज्ञानतोऽपि यदृच्छया
यदि भुंक्ते नरः कश्चित्पात्यः सोऽपि कुलान्नरः । गोबीजहंता यो विप्रच्छेदकश्च दलस्य च
स्वर्णस्तेयी भवेत्कृच्छ्रं प्राजापत्यत्रयं चरेत् । सशिखं वपनं कृत्वा पंचगव्यं तथा पिबेत्
यथाविधिहुतं चाग्नौ दद्याद्धेनुत्रयं तथा । तस्य भुक्तं जलं चैव ग्राह्यं स्याद्वै तपोधन
प्रातस्त्र्यहं तु चाश्नीयात्र्यहं सायमयाचितम् । त्र्यहं चैव तु नाश्नीयात्प्राजापत्यमिदं व्रतम्
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् । दिनद्वयं पिबेद्विप्र चैकरात्रमुपोषितः । सर्वपापहरं कृच्छ्रं मुने सांतपनं स्मृतम्
ग्रासं त्र्यहं तु चैकैकं प्रातःसायमयाचितम् । अद्यात्त्र्यहं चोपवसेदतिकृच्छ्रमिदं व्रतम्
प्रतित्र्यहं पिबेदुष्णं जलं क्षीरं घृतं द्विज । सकृत्स्नायी तप्तकृच्छ्रं स्मृतं पापहरं मुने
अभोजनं द्वादशाहं कृच्छ्रोऽयं पापनाशनः । पराको नाम विज्ञेयः प्रसिद्धश्च तपोधन
एकैकं वर्द्धयेत्पिंडं शुक्ले कृष्णे च ह्रासयेत् । इंदुक्षये न भुंजीत चांद्रायणव्रतं स्मृतम्
अश्नीयाच्चतुरः प्रातः पिंडान्विप्र समाहितः । चतुरोऽस्तमिते चार्के शिशुचांद्रायणं स्मृतम्
कूष्मांडघाती या नारी पंचगव्यं पिबेत्त्र्यहम् । कूष्मांडपंचकं दद्यात्ससुवर्णं सवस्त्रकम् । तस्या वारि तथा भक्तं ग्राह्यं स्याद्वै तपोधन
शौनक उवाच। सुकृतं किं तथा प्राह कृत्वा संसारसागरात् । तरिष्यंति कलौ सूत तमोन्धकूपमंडुकाः
सूत उवाच। राधाकृष्णप्रिये चौर्जे प्रातःस्नानं समाचरेत् । राधादामोदरं भक्त्या कुर्यात्पूजां समाहिता
त्यक्त्वामिषादिकं ब्रह्मन्पतिसेवापरायणा । सा याति श्रीहरेः स्थानं गोलोकाख्यं सुदुर्ल्लभम्
राधादामोदराभ्यां या धूपदीपं तु कार्तिके । दद्यात्सा भवनं विष्णोर्याति वै त्यक्तपातकाः
योषिद्या कार्त्तिके विप्र दद्याद्वस्त्रं निकेतने । राधादामोदराभ्यां तु वसेत्सा श्रीहरेश्चिरम्
राधादामोदराभ्यां सा पुष्पं माल्यं सुवासितम् । कार्तिके मासि सा दद्याद्याति वैकुंठमंदिरम्
गंधं या चापि नैवेद्यं दद्याद्वै शर्करादिकम् । राधादामोदराभ्यां सा गच्छेद्वै विष्णुमंदिरम्
यत्किंचिद्यच्छति ब्रह्मन्कार्तिके च द्विजातये । राधादामोदरप्रीत्यै तस्याः पुण्याक्षयं भवेत्
या नारी कार्तिके भक्त्या राधादामोदरं द्विज । प्रातः सपर्यां सा याति न कुर्य्यान्निरयं चिरम्
कदाचिज्जन्मभूमौ सा विधवा प्रति जन्मनि । भवेच्चासाद्य पूर्व्वं वै चाप्रिया स्वामिनोऽपि च
पुरा त्रेतायुगे विप्र वृषलो नाम शंकरः । सौराष्ट्रदेशवासी च तस्य जाया कलिप्रिया