मातरं यदि वा गच्छेद्भगिनीं स्वसुतामपि । वधूं च मोहितो गच्छंस्त्रीणि कृच्छ्राण्यथाचरेत्
चांद्रायणत्रयं कृत्वा दद्याद्गोमिथुनत्रयम् । सशिखं वपनं कृत्वा पंचगव्यं पिबेत्ततः
हुते ह्यग्नौ तथाप्यत्र शुद्ध्यत्येवं तपोधन । पितृदारान्द्विजश्रेष्ठ मातुश्च भगिनीं तथा
गुरुपत्नीं मातुलानीं भ्रातुर्भार्यां स्वगोत्रजाम् । यदि गच्छति मोहेन प्राजापत्यद्वयं चरेत्
चांद्रायणत्रयं ब्रह्मन्पंचगोमिथुनानि च । विप्रेभ्यो दक्षिणां दद्याच्छुध्यते नात्र संशयः
गां च गच्छति यो मूढ उपवासत्रयं चरेत् । धेनुं दत्त्वा तथा चान्नं शुद्ध्यत्यत्र न संशयः
वेश्यां खरीं शूकरीं च कपिं तुं महिषीं द्विज । आकंठतः समाक्षिप्य गोमयोदककर्द्दमे
तत्र तिष्ठेन्निराहारो त्रिरात्रेणैव शुद्ध्यति । सशिखं वपनं कृत्वा त्रिरात्रमुपवासयेत्
एकरात्रं जले स्थित्वा शुद्ध्यत्येव न संशयः । ब्राह्मणीं तु यदा गच्छेत्यो नरः काममोहितः
प्राजापत्यत्रयं कुर्य्याच्चांद्रायणत्रयं तथा । गोत्रयं तु तथा दद्याच्छुद्ध्यत्येव तपोधन
ब्राह्मणी पंचगव्यं तु पंचरात्रं पिबेद्द्विज । गोद्वयं दक्षिणां दद्याच्छुध्यत्यत्र न संशयः
परांगनां यदागच्छेत्कृच्छ्रं सांतपनं चरेत् । यथार्गला तथा योषित्तस्मात्तां परिवर्जयेत्
वर्णबाह्यां तथा नीचामनुगच्छेत्सकृन्नरः । प्राजापत्यं चरेत्कृच्छ्रं शुद्ध्यत्येव न संशयः
अंगारसदृशी योषित्सर्पिः कुंभसमः पुमान् । तस्याः परिसरे ब्रह्मन्न स्थातव्यं कदाचन
जारेण जनयेद्गर्भं या च नारी कुलांतका । त्याज्या सा सर्वथा ब्रंह्मस्तत्र दोषो न विद्यते
या च नारी गृहाद्गच्छेत्त्यक्त्वा बंधून्स्वकानपि । नष्टा सा च कुलभ्रष्टा न तस्याः संगमः पुनः
या च नारी यदा गच्छेन्मोहिता परपूरुषम् । प्राजापत्यं चरेत्कृच्छ्रं पंचगव्यं पिबेत्ततः
गोद्वयं तु ततो दद्याच्छुध्यत्येव न संशयः । ब्राह्मणी बालिशा ब्रह्मन्मोहिता परपूरुषम्
यदा गच्छेत्तदा त्याज्या जनैर्दोषो न विद्यते । यो गच्छेद्ब्राह्मणीं विप्र भूसुरः काममोहितः । गो तिलांश्च तदा दद्याच्छुद्ध्यत्यत्र न संशयः
शौनक उवाच। अज्ञानात्प्राश्य विण्मूत्रं सुरां संस्पृश्य वा पुनः । यथा शुद्धिर्भवेत्तेषां कथयामि शृणु द्विज
प्राजापत्यद्वयं कुर्य्यात्तीर्थाभिगमनं मुने । वृषैकादशगोदानं सशिखं वपनं ततः
गत्वा चतुष्पथं सर्वं प्राजापत्यव्रतं तथा । गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेत्ततः
ब्राह्मणान्भोजयित्वा तु शुद्ध्यत्यत्र न संशयः । चांडालान्नं जलं चैव ज्ञानतोऽपि विपत्तिषु
यदि भुङ्क्ते नरः कश्चित्कृच्छ्रं चांद्रायणं चरेत् । सशिखं वपनं कृत्वा पंचगव्यं ततः पिबेत्
एकद्वित्रिचतुर्गावो देयाद्विप्रेष्वनुक्रमात् । वृषलान्नं सूतकान्नं अभोज्यान्नं जलं च वै
शूद्रोच्छिष्टं यदा भुंक्ते ज्ञानतो वा विपत्तिषु । प्राजापत्यद्वयं कुर्याच्चांद्रायणत्रयं तथा
गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेद्द्विज । हुत्वा ह्यग्नौ बहून्विप्रान्भोज्यशुद्धो भवेद्ध्रुवम्
आखुनकुलमार्ज्जारैरन्नं चेद्भक्षितं द्विज । तिलदर्भोदकैः प्रोक्ष्य शुद्ध्यत्येव न संशयः
पलांडुं लशुनं शिग्रुमलाबुं गृंजनं पलम् । भुंक्ते यो वै नरो ब्रह्मन्व्रतं चांद्रायणं चरेत्
मद्यमांसप्रियं शूद्रं नीचकर्म्मानुवर्त्तनैः । तं शूद्रं वर्जयेद्विप्र श्वपाकमिव दूरतः