सूत उवाच। पुरा त्रेतायुगे पापी नाम्ना विप्रः सुदर्शनः । जनार्द्दनदिने नित्यमश्नीयात्स द्विजोत्तम
शास्त्रनिंदाकरो नित्यं व्रतनिंदाकरः सदा । असावन्यं न जानाति केवलं स्वोदरं विना
एकदा प्राप्तकालस्तु निधनं प्राप्तवान्द्विज । यमदूताः समायाता बद्ध्वा नीतो यमालयम्
तं दृष्ट्वा यमुनाभ्राता पप्रच्छ सचिवं रुषा । भोऽमात्य चास्य यत्पुण्यं पापं वद समूलतः
असौ विप्रो महापापी क्रूरकर्म्मेव दृश्यते
चित्रगुप्त उवाच। आकर्णय चास्य पापं पुण्यं नास्त्यणुमात्रकम् । वासरेऽपि हरेर्नित्यमकरोद्भोजनं विभो
वासरे कमलाभर्तुश्चाश्नीयाद्यो नराधमः । पुरीषं सोऽश्नीयाद्राजन्निरयं याति दारुणम्
मन्वंतरशतं देहि स्थानं तु निरयेऽप्यमुम् । ग्रामक्रोडस्य योनौ हि ततो जन्म भविष्यति
सूत उवाच। यमाज्ञया ततो विप्र तस्य दूतैर्भयंकरैः । पातितस्तु पुरीषे वै मन्वंतरशताधिकम्
ततो मुक्तोऽभवच्चासौ पृथिव्यां ग्रामसूकरः । चिरं नरकमश्नीयाद्धरिवासरभोजनात्
ततो विप्र प्राप्तकालः पंचत्वं स जगाम ह । काकयोनौ पुनर्जन्म लेभेऽसौ विड्भुजः सदा
एकस्मिन्दिवसे विप्र श्रीहरेश्चरणोदकम् । द्वारदेशेस्थितं पीत्वा सर्वपापविवर्जितः
तस्मिन्नेव दिने काकः पतितः शबरस्य च । काले मृत्युदशां प्राप्तो व्याधेन वायसोपि च
आगते स्यंदने दिव्ये राजहंसयुते शुभे । आरुह्य बलिभुग्विप्र ययौ स हरिमंदिरम्
पादोदकस्य माहात्म्यं कथितं पापनाशनम् । यः शृणोति नरः पापी तस्य पापं विनश्यति
शौनक उवाच। अगम्यागमनं सूत कुर्याद्यो वै विमोहितः । तस्य शुद्धिर्भवेत्केन कथयस्व समूलतः
सूत उवाच। अभिगच्छति चांडालीं श्वपाकीं यो द्विजोत्तमः । उपवासत्रयं कुर्यात्प्राजापत्यं चरेत्ततः
सशिखं वपनं चैव दद्याद्गोद्वयमेव च । यथार्थदक्षिणां दत्वा शुद्धिमाप्नोति स द्विजः
क्षत्त्रियो वापि चांडालीं वैश्यो वा यदि गच्छति । प्राजापत्यं सकृच्छ्रं च दद्याद्गोमिथुनद्वयम्
अनुगच्छति शूद्रो हि श्वपाकीं च तपोधन । चतुर्गोमिथुनं दद्यात्प्राजापत्यं व्रतं चरेत्
मातरं यदि वा गच्छेद्भगिनीं स्वसुतामपि । वधूं च मोहितो गच्छंस्त्रीणि कृच्छ्राण्यथाचरेत्
चांद्रायणत्रयं कृत्वा दद्याद्गोमिथुनत्रयम् । सशिखं वपनं कृत्वा पंचगव्यं पिबेत्ततः
हुते ह्यग्नौ तथाप्यत्र शुद्ध्यत्येवं तपोधन । पितृदारान्द्विजश्रेष्ठ मातुश्च भगिनीं तथा
गुरुपत्नीं मातुलानीं भ्रातुर्भार्यां स्वगोत्रजाम् । यदि गच्छति मोहेन प्राजापत्यद्वयं चरेत्
चांद्रायणत्रयं ब्रह्मन्पंचगोमिथुनानि च । विप्रेभ्यो दक्षिणां दद्याच्छुध्यते नात्र संशयः
गां च गच्छति यो मूढ उपवासत्रयं चरेत् । धेनुं दत्त्वा तथा चान्नं शुद्ध्यत्यत्र न संशयः
वेश्यां खरीं शूकरीं च कपिं तुं महिषीं द्विज । आकंठतः समाक्षिप्य गोमयोदककर्द्दमे
तत्र तिष्ठेन्निराहारो त्रिरात्रेणैव शुद्ध्यति । सशिखं वपनं कृत्वा त्रिरात्रमुपवासयेत्
एकरात्रं जले स्थित्वा शुद्ध्यत्येव न संशयः । ब्राह्मणीं तु यदा गच्छेत्यो नरः काममोहितः
प्राजापत्यत्रयं कुर्य्याच्चांद्रायणत्रयं तथा । गोत्रयं तु तथा दद्याच्छुद्ध्यत्येव तपोधन