श्वपचास्ते तमुन्नीय चंद्रभागापरे तटे । योजनद्वयभूभागं चिच्छिदुस्तस्य मस्तकम्
स पापो मारवे देशे सर्पोऽभूत्कालविग्रहः । धवकोटरमध्यस्थो विषज्वालाकराननः
स शुष्को धववृक्षस्तु तस्य फूत्कारवह्निना । तथा तपनतापेन सरसोऽपि यथा ह्रदः
गमनात्तस्य पापस्य सर्वतो वृक्षमूषरम् । उच्छिद्य तृणजातादि जातं पश्वहितं तदा
तत्र जातु समायातः सार्थो दक्षिणदेशतः । नारायणाश्रमं गच्छन्बदर्याख्यं शिवे नृप
तत्रैको ब्राह्मणः कश्चित्सार्थेसंमीलितः पथि । निश्छिद्रां काष्ठमंजूषां पितृमात्रस्थिसंयुताम्
स्कंधेन धारयन्याति तानि पातयितुं नृप । गंगांभसि महाभाग पापिनामपि कामदे
सोऽप्यागतस्तत्र वने यत्रास्ति स भुजंगमः । विविक्ते क्षिप्य मंजूषां शलाकालोहनिर्मिताम्
अथागत्य भुजंगोऽसौ शलाकां फणयाघटत् । किंचिदुद्धाटितायां स मंजूषायां समाविशत्
पुनः शलाका स्वंस्थानमागताथ स कुंडली । तत्रैव तस्थौ निश्चेष्टो मंजूषायां विषोल्बणः
अथ प्रभाते सर्वे ते चेलुः स्थानात्ततो नृप । ब्राह्मणः सोऽपि मंजूषां कंबलेन समावृताम्
कृत्वा शिरसि राजेंद्र चचाल प्रति जाह्नवीम् । कतिभिर्वासरैः सार्थः संप्राप्तस्तीर्थगामिनाम्
इहैव कोशलायां वै पुनीतायां महीपते । अथ शीतातुरो विप्रः कंबलं चोदघाटयत्
मंजूषावरणं राजन्तत्रायोध्यातटे शुभे । सोऽपि सर्पो निराहारो लब्ध्वा मारुतभोजनम्
निश्चक्राम बहिस्तस्मादुत्क्षेप्य सुशलाकिकाम् । तं निःसृतं समालोक्य सर्प्प सर्प इति क्रुधा
व्याहरंतो जनाः सर्वे लोष्टहस्ताः समभ्ययुः । यावत्पलायते सर्पस्तावदेकेन घातितः
तत्याज स तदा प्राणान्पश्यतां तीर्थगामिनाम् । त्यक्त्वा भुजंगदेहं स देवत्वं प्राप दुर्लभम्
दिव्यं विमानमारुह्य प्रोवाचेदं जनानि ह । सर्प उवाच- भो दाक्षिणात्याः शृणुत ब्राह्मणा वचनं मम
पुरा चंडकनामाहं नापितो ब्रह्महाधमः । ब्रह्महत्याप्रदोषेण सर्पआसं मरुस्थले
भुक्त्वा नरकदुःखानि वर्षाणां लक्षपंचकम् । अतीतं सर्पयोनौ मे वर्षाणामयुतद्वयम्
तीर्थस्यास्य प्रसादेन प्राप्तं देवत्वमुत्तमम् । तस्मादिदं न वै त्याज्यं तीर्थं वै कोशलाभिधम् । सर्वार्थदं यतो नाकः प्राप्तः पापीयसा मया
नारद उवाच- एवं स नापितः पापो योनिं प्राप्य विनिंदिताम् । जगाम द्यां विमानस्थस्तीर्थस्यास्य प्रसादतः
ते दाक्षिणात्या यतयो भूत्वा तत्रैव तीर्थके । ऊषुर्गोविंदपादाब्ज मानसा दृष्टवैभवे
माहात्म्यमस्य तीर्थस्य दृष्ट्वा स ब्राह्मणोत्तमः । तीर्थेऽत्रजातविश्रद्धः पित्रोरस्थीनि सोऽक्षिपत्
पतितेष्वस्थिखंडेषु पितरौ तस्य तत्क्षणात् । विमानवरमारूढौ दिव्यौ तत्र समागतौ
ऊचतुश्च स्वतनयं शृण्वानेषु जनेषु वै । वत्स जीव चिरं लोके धनधान्यसुखी भव
आवयोर्मुक्तिदानाच्च मुक्तिं यास्यसि नो मृषा । गंगायां पिंडदानेन यत्फलं स्यात्सुतस्य वै । पितॄणां या गतिश्चात्र द्वयं स्यादस्थिपाततः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे। कालिंदीमाहात्म्ये मुकुंदोपाख्यानं नामैकादशाधिकद्विशतमोध्यायः
नारद उवाच- आकर्णय शिबे राजन्वर्णयामि तवाग्रतः । पुण्यं यशस्यमायुष्यं काश्या माहात्म्यमुत्तमम्
इंद्रप्रस्थतटस्थायां काश्यामेकस्तु पादपः । शिंशपाख्योभवेद्राजन् पुरा पुण्ययुगे कृते