भक्त्या याति हरेः स्थानं पुनरावृत्तिवर्जितः । न दद्याद्यो नरो मोहात्तस्मिन्न तुष्टिदो हरिः
वराटिकां यावतीं यो हरये पौर्णिमादिने । तावद्दिनं हरेः स्थानं चाश्विने संवसेद्ध्रुवम्
करवीरपुरे ह्यासीत्पुरा शूद्रोऽपि निर्द्दयः । कालद्विजो द्विजश्रेष्ठ नाम्ना पापी भयंकरः
स्वकार्यनिरतः सोऽपि स्वामिकार्यप्रणाशकः । एकदा पंचतां यातो यमदूता भयंकराः
आगतास्तं समानेतुं यमस्यतु निकेतनम् । बद्ध्वा निन्युश्च तं दृष्ट्वा पृष्टवान्सचिवं यमः
यम उवाच । अस्य किं विद्यतेऽमात्य कर्मापि च शुभाशुभम् । कथयस्व समूलं तु चित्रगुप्त विचक्षण
चित्रगुप्त उवाच। असौ पापी दुराचारः स्वामिकार्यप्रणाशकः । नास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम्
शतमन्वन्तरं राजन्नागयोनौ च निष्ठुरः । पाषाणे जन्म चासाद्य गृहे स्थातुं निरंतरम्
सूत उवाच । तावत्कालं ततो विप्र निरये स पपात ह । ततोऽप्यश्मगृहे नागयोनौ जातः सुदुःखितः
एकदा चाश्विने मासि पौर्णमासीदिने द्विज । लाजान्वराटिका नागो बिलात्प्राक्षेपयद्बहिः
पतिता सा हरेरग्रे पापमस्य स्वयं हरिः । तूर्णं तु नाशयामास दयालुर्दुःखनाशकः
कदाचित्प्राप्तकालस्तु पंचत्वं स जगाम ह । यमदूतास्तमानेतुं चागता बहुशो द्विज
बद्ध्वा नेतुं यदा चक्रुर्यमस्य सदनं प्रति । तदागता विष्णुदूताः शंखचक्रगदाधराः
पाशं छित्त्वा रथे दिव्ये तमाशुगतकिल्बिषम् । तत्र चारोपयामासुः यमदूताः पलायिताः
ततो निकेतनं विष्णोर्नागस्तैर्वेष्टितो ययौ । तत्र तस्थौ हरेरग्रे पुनरावर्त्तिवर्जितः
भक्त्या यो हरये दद्याल्लाजांश्च सघृतान्द्विज । वराटिकां तस्य पुण्यं न जाने किं भवेद्ध्रुवम्
य इमं शृणुयाद्विप्र चाध्यायं पापनाशनम् । तस्य नश्यंति पापानि श्रीहरेः कृपयापि च
शौनक उवाच। विष्णुपादोदकस्यापि माहात्म्यं पापनाशनम् । कथयस्व महाप्राज्ञ समूलं मे कृपार्णव
सूत उवाच। समस्तपातकध्वंसि विष्णुपादोदकं शुभम् । कणमात्रं वहेद्यस्तु सर्वतीर्थफलं लभेत्
विष्णुपादोदकं ब्रह्मन्स्पर्शतः पापनाशनम् । अकालमरणं नास्ति गंगास्नानफलं लभेत्
विष्णुपादोदकं पापी यः पिबेत्तस्य किल्बिषम् । शरीरस्थं क्षयं याति कृतं ब्रह्मन्न संशयः
तुलसीपर्णसंयुक्तं विष्णुपादोदकं द्विज । यो वहेच्छिरसा भक्त्या चांते याति हरेर्गृहम्
मेरुतुल्यसुवर्णानि दत्त्वा यत्फलमाप्यते । हरिपादोदकं स्पृष्ट्वा प्राप्यते तत्फलं नरैः
धेनुकोटिसहस्राणि यत्फलं लभते नरैः । दत्वा पादोदकं स्पृष्ट्वा तत्फलं प्राप्यते ध्रुवम्
यज्ञकोटिसहस्राणि कृत्वा यत्फलमाप्यते । हरिपादोदकं स्पृष्ट्वा तस्मात्कोटिगुणं नरैः
कोटिकन्याप्रदानेन यत्फलं लभ्यते जनैः । विष्णुपादोदकं स्पृष्ट्वा फलं तस्माद्द्विजाधिकम्
दंतिकोटिप्रदानेन सप्तिकोटिप्रदानतः । यत्फलं लभते मर्त्यः स्पृष्ट्वा पादोदकं हरेः
दत्वा मर्त्यः सप्तद्वीपां ससस्यां यत्फलं लभेत् । विष्णुपादोदकं स्पृष्ट्वा तस्माद्विप्राधिकं लभेत्
शृणु विप्र प्रवक्ष्यामि संक्षेपेणाधिकं किमु । विष्णुपादोदकं स्पृष्ट्वा पापी याति हरेर्गृहम्
शौनक उवाच। स्पृष्ट्वा पीत्वा पुरा केन प्राणिना प्रापि वै गृहम् । कथयस्व हरेः सूत मम त्वं चानुकंपया