ततः प्रभाते रजनी द्वादशी श्रवणान्विता । आगता तत्र सा नारी रोषनिर्भरमानसा
निराहारौ कृतौ द्वौ च निर्मला सा बभूव ह । रात्रौ च पंचतां याता जयंतीवासरे द्विज
यमाज्ञया ततो दूता आगतास्तां तथाविधाम् । नेतुं भयंकरास्ते च पाशमुद्गरपाणयः
बद्ध्वा नेतुं मनश्चक्रे कृतांतसदनं यदा । तदागता विष्णुदूताः शंखचक्रगदाधराः
छित्त्वा पाशं ततो दिव्ये स्यंदने तां गतैनसम् । ते वै चारोहयामासु निर्मलां भवनं हरेः
गता तैर्वेष्टिता साथ दुर्ल्लभं निर्जरैः शुभम् । विष्णोर्दिवसमाहात्म्यं कथितं ते द्विजर्षभ
अनिच्छयापि यः कुर्यात्स याति हरिमंदिरम् । एकादश्यादिने मर्त्यो दीपं दातुं हरेर्गृहे
गच्छेत्प्रतिपदं सोऽपि चाश्वमेधफलाधिकम् । शृण्वंति च पुराणानि पठंति च हरेर्दिने । प्रत्यक्षरं लभंते ते कपिलादानजं फलम्
शौनक उवाच । कर्मणा केन भोः सूत चैनसां संक्षयो भवेत् । श्रीहरेश्च कृपा भूयात्तद्वदस्वानुकंपया
सूत उवाच । शृणु शौनक वक्ष्यामि शृण्वतां पापनाशनम् । येन विष्णोः कृपा स्याद्वै वृजिनक्षयकारिणी
पौर्णमास्यां तु यो विप्र भक्तिभावसमन्वितः । कुर्य्यान्नानाविधानेन सपर्य्यां श्रीजगद्विभोः
कलुषं तस्य नश्येत कोटिजन्मार्जितं मुने । तस्मिन्श्रीरमणस्यास्य कृपा जाता भवेद्ध्रुवम्
द्वादश्यामन्नदानं यो भक्त्या कुर्याद्द्विजातये । तस्य नश्यंति पापानि तमांसी वारुणोदये
यो नरः श्रीहरिं कुर्यात्स्नपनं पयसा द्विज । तत्प्रीतिः श्रीहरेः सद्यो द्वादश्यां शर्करादिभिः
मंत्रं विना तु यो विप्र दद्याच्छ्रीहरये किल । पाषाणसदृशं पुष्पं दाता याति अधोगतिम्
क्ष्मासुराय च मूर्खाय पाषाणसदृशं तु यत् । दद्याद्दानं नरो यो वै तस्य पुण्यं न विद्यते
विद्याहीनो द्विजो मोहाद्दानं गृह्णाति मूढधीः । कालानलं यथा जीर्णं तेन स निरयं व्रजेत्
यथा दारुमयो हस्ती मृगश्चित्रमयो यथा । विद्याहीनो द्विजो विप्र त्रयस्ते नामधारकाः
यथाध्वनिस्थितं वारि पवनार्केण शुद्ध्यति । भक्त्या तु पार्षदं दृष्ट्वा तस्य नश्यति कल्मषम्
यो नरश्चाश्विने मासि सघृतान्पूर्णिमा दिने । दद्याच्छ्रीहरये लाजान्क्रीडार्थं तु वराटिकाम्
भक्त्या याति हरेः स्थानं पुनरावृत्तिवर्जितः । न दद्याद्यो नरो मोहात्तस्मिन्न तुष्टिदो हरिः
वराटिकां यावतीं यो हरये पौर्णिमादिने । तावद्दिनं हरेः स्थानं चाश्विने संवसेद्ध्रुवम्
करवीरपुरे ह्यासीत्पुरा शूद्रोऽपि निर्द्दयः । कालद्विजो द्विजश्रेष्ठ नाम्ना पापी भयंकरः
स्वकार्यनिरतः सोऽपि स्वामिकार्यप्रणाशकः । एकदा पंचतां यातो यमदूता भयंकराः
आगतास्तं समानेतुं यमस्यतु निकेतनम् । बद्ध्वा निन्युश्च तं दृष्ट्वा पृष्टवान्सचिवं यमः
यम उवाच । अस्य किं विद्यतेऽमात्य कर्मापि च शुभाशुभम् । कथयस्व समूलं तु चित्रगुप्त विचक्षण
चित्रगुप्त उवाच। असौ पापी दुराचारः स्वामिकार्यप्रणाशकः । नास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम्
शतमन्वन्तरं राजन्नागयोनौ च निष्ठुरः । पाषाणे जन्म चासाद्य गृहे स्थातुं निरंतरम्
सूत उवाच । तावत्कालं ततो विप्र निरये स पपात ह । ततोऽप्यश्मगृहे नागयोनौ जातः सुदुःखितः
एकदा चाश्विने मासि पौर्णमासीदिने द्विज । लाजान्वराटिका नागो बिलात्प्राक्षेपयद्बहिः