परमां गतिमासाद्य तिष्ठेद्विष्णुनिकेतने । एकादशीं समासाद्य निराहारा भवंति ये
तेषां विष्णुपुरे शश्वन्निवासोऽपि न संशयः । तुलसीभक्तिसंलीनं मनो येषां विराजते
ते यांति परमं विष्णोः स्थानमेव न संशयः । परद्रव्येष्वभिरुचिर्येषां चैव न विद्यते
संतुष्टमनसो येऽपि तेषां विष्णुपुरं ध्रुवम् । दुर्भिक्षकालमासाद्य प्राणिभ्यो ये नरोत्तमाः
ददत्यन्नं हरेः सद्म तेषां चैव न संशयः । गवां द्विजानां त्राणाय स्वामिनो योषितस्तथा
प्राणान्मुंचंति ये मर्त्त्यास्तेषां विष्णुपुरं ध्रुवम् । प्राणिभिर्दशमीविद्धा न चोपोष्या कदाचन
परिहार्यं द्विजश्रेष्ठ दुर्जनस्यांतिकं यथा । अरुणोदयवेलायां दशमी संगता यदि
तत्रोपोष्या द्वादशी स्यात्त्रयोदश्यां तु पारणम् । दशमीशेषसंयुक्तो यदि स्यादरुणोदयः
वैष्णवेन न कर्त्तव्यं तद्दिनैकादशीव्रतम् । चतस्रो घटिकाः प्रातररुणोदय उच्यते
यतीनां स्नानकालोयं गंगांभः सदृशः स्मृतः । अरुणोदयकाले तु दशमी यदि दृश्यते
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी । स्वल्पां च दशमीविद्धां त्यजेदेकादशीं बुधः
सुराबिंदोस्तु संपर्कात्घृतकुंभं त्यजेद्यथा । संपूर्णैकादशी यत्र द्वादश्यां पुनरेव सा
उत्तरा यतिभिः कार्या पूर्वामुपवसेद्गृही । एकादशीकला यत्र द्वादशीपरतो न चेत्
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् । एकादशी विलुप्ता चेत्परतो द्वादशीयुता
उपोष्या द्वादशी पूर्णा यदीच्छेत्परमां गतिम् । संपूर्णैऽकादशी यत्र प्रभाते पुनरेव सा
सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि । एकादशीव्रते येषां मनः संलीयते नृणाम्
तेषां स्वर्गो हि वासोऽथ यांति ते सदनं हरेः । एकादश्याः परं नास्ति परलोकस्य साधनम्
बहुपापसमायुक्तः करोति हरिवासरम् । सर्वपापविनिर्मुक्तः स याति हरिमंदिरम्
पतिसहिता या योषित्करोति हरिवासरम् । सुपुत्रा स्वामिसुभगा याति प्रेत्य हरेर्गृहम्
यो यच्छति हरेरग्रे प्रदीपं भक्तिभावतः । हरेर्द्दिने र्द्विजश्रेष्ठ पुण्यसंख्या न विद्यते
यांगना भर्तृसहिता कुरुते जागरं हरेः । हरेर्निकेतने तिष्ठेच्चिरं पत्या सह द्विज
यत्किञ्चिद्धरये वस्तु भक्त्या यच्छति यो द्विज । हरेर्दिने तस्य पुण्यमक्षयं चैव सर्वदा
पुरासीद्वल्लभो नाम्ना नगरे कांचनाह्वये । धनेन पुष्कलेनापि राजते स धनेश्वरः
तस्य प्रिया महारूपा नाम्ना हेमप्रभा द्विज । गरीयान्मुखरस्तत्र बाधते च कलेर्गुणः
सा सदा कलहं कुर्यात्पत्या सह तपोधन । शश्वद्गुरुजनान्कामं भर्त्सनान्नीचभाषया
पाकपात्रे सदाश्नीयात्गुप्ता सैकांतिकेमला । उच्छिष्टं गुरुजनेभ्यश्च दद्याद्वै प्रतिवासरम्
जारे सदा स्थितं चित्तमहं साध्वीति सा वदेत् । स्वामिनः कलहैर्ब्रह्मन्मनोद्वेगकरा सदा
एकदा चागतां दृष्ट्वा चकार भर्त्सनां च ताम् । भर्त्ता तस्याः प्रहारं च सर्वपापयुतां द्विज
सैव रोषसमायुक्ता गता शून्यगृहे तु वै । सुप्ताऽज्ञाता स्थिता कस्मिन्जलान्नं न चखाद ह
दैवात्तत्र दिने विष्णोः पार्श्वस्य परिवर्त्तनम् । एकादशीव्रतं विप्र सर्वपापप्रणाशनम्