बहूनि विविधान्येव तिष्ठंति दुरितानि च । अमावास्यां यथा स्त्रीणां संगमे कलुषं महत्
एकादश्यां तथैवान्नभक्षणे वृजिनं भवेत् । रोगिणश्च तथा खंज काससोदरकुष्ठकाः
भवंति प्राणिनस्ते वै तस्यामन्नस्य भक्षणे । ग्रामशूकरतां यांति दारिद्र्यं च प्रयांति वै
राजबद्धा द्विजश्रेष्ठ तस्यामन्नस्य भक्षणे । संसारे यानि पापानि तानि विप्र हरेर्दिने
भुक्तिमाश्रित्य तिष्ठंति जलभक्षणमाज्ञया । कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत्
न निष्कृतिर्भवेन्नॄणां भुंजतां च हरेर्दिने । नरा यावंति चान्नानि भुंजते च हरेर्दिने
प्रत्यन्नं च ब्रह्महत्याकोटिजं वृजिनं भवेत् । पुनर्वच्मि पुनर्वच्मि श्रूयतां श्रूयतां नराः
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने । गंगादिषु च तीर्थेषु स्नात्वा यत्फलमाप्यते
चंद्रसूर्योपरागे च चैकादश्यामुपोषितः । अर्चित्वोत्पलमालाभिस्तस्यां च कमलापतिम्
विधिवत्पारणं कृत्वा न मातुर्गर्भभाजनम् । एकादश्यां हरेर्गेहे करोति मंडनं द्विज
परमां गतिमासाद्य तिष्ठेद्विष्णुनिकेतने । एकादशीं समासाद्य निराहारा भवंति ये
तेषां विष्णुपुरे शश्वन्निवासोऽपि न संशयः । तुलसीभक्तिसंलीनं मनो येषां विराजते
ते यांति परमं विष्णोः स्थानमेव न संशयः । परद्रव्येष्वभिरुचिर्येषां चैव न विद्यते
संतुष्टमनसो येऽपि तेषां विष्णुपुरं ध्रुवम् । दुर्भिक्षकालमासाद्य प्राणिभ्यो ये नरोत्तमाः
ददत्यन्नं हरेः सद्म तेषां चैव न संशयः । गवां द्विजानां त्राणाय स्वामिनो योषितस्तथा
प्राणान्मुंचंति ये मर्त्त्यास्तेषां विष्णुपुरं ध्रुवम् । प्राणिभिर्दशमीविद्धा न चोपोष्या कदाचन
परिहार्यं द्विजश्रेष्ठ दुर्जनस्यांतिकं यथा । अरुणोदयवेलायां दशमी संगता यदि
तत्रोपोष्या द्वादशी स्यात्त्रयोदश्यां तु पारणम् । दशमीशेषसंयुक्तो यदि स्यादरुणोदयः
वैष्णवेन न कर्त्तव्यं तद्दिनैकादशीव्रतम् । चतस्रो घटिकाः प्रातररुणोदय उच्यते
यतीनां स्नानकालोयं गंगांभः सदृशः स्मृतः । अरुणोदयकाले तु दशमी यदि दृश्यते
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी । स्वल्पां च दशमीविद्धां त्यजेदेकादशीं बुधः
सुराबिंदोस्तु संपर्कात्घृतकुंभं त्यजेद्यथा । संपूर्णैकादशी यत्र द्वादश्यां पुनरेव सा
उत्तरा यतिभिः कार्या पूर्वामुपवसेद्गृही । एकादशीकला यत्र द्वादशीपरतो न चेत्
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् । एकादशी विलुप्ता चेत्परतो द्वादशीयुता
उपोष्या द्वादशी पूर्णा यदीच्छेत्परमां गतिम् । संपूर्णैऽकादशी यत्र प्रभाते पुनरेव सा
सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि । एकादशीव्रते येषां मनः संलीयते नृणाम्
तेषां स्वर्गो हि वासोऽथ यांति ते सदनं हरेः । एकादश्याः परं नास्ति परलोकस्य साधनम्
बहुपापसमायुक्तः करोति हरिवासरम् । सर्वपापविनिर्मुक्तः स याति हरिमंदिरम्
पतिसहिता या योषित्करोति हरिवासरम् । सुपुत्रा स्वामिसुभगा याति प्रेत्य हरेर्गृहम्
यो यच्छति हरेरग्रे प्रदीपं भक्तिभावतः । हरेर्द्दिने र्द्विजश्रेष्ठ पुण्यसंख्या न विद्यते