शूद्राचारपरिभ्रष्टो भीमोऽसौ गुरुतल्पगः । प्रत्येकं वच्मि किं तस्य दस्योः संख्या न विद्यते
पापानां मुनिशार्दूल भीमस्य दुष्टचेतसः । एकदा स गतः कश्चिद्ब्राह्मणस्य निवेशनम्
गत्वा तं तस्य गेहात्तु द्रव्यं नेतुं मनो दधे । तत्रोवास ब्राह्मणस्य बहिर्द्वारसमीपतः
दैन्ययुक्तं वचः प्राह क्ष्मासुरं स तपोधनम् । भो स्वामिन्शृणु मे वाक्यं दयालुरिव मन्यते
क्षुधार्तोऽहं देहि चान्नं प्राणा यास्यंति मे द्रुतम्
ब्राह्मण उवाच- क्षुधार्त्त शृणु मे कश्चिद्वाक्यं कर्तुं न विद्यते । पाकं मे तंडुलानि त्वं नीत्वा भुंक्ष्व यथासुखम्
नास्ति मे जनको माता नास्ति सूनुः सहोदरः । नास्ति जाया मातृबंधुर्मृताः सर्वे विहाय माम्
तिष्ठाम्येको गृहेऽकर्मा भाग्यहीनोतिथे हरिः । एको मे वसतौ चास्ति न जाने तद्विना किल
भीम उवाच।मम कश्चिद्द्विजश्रेष्ठ नास्ति सेवां तवापि च । शूद्रोऽहं निलये जात्या कृत्वा स्थास्यामि ते सदा
सूत उवाच।इति तस्य वचः श्रुत्वा सानंदः क्ष्मासुरस्तदा । पाकं विधाय तूर्णं स ददावन्नं तपोधन
सोऽपि हर्षसमायुक्तस्तस्थौ तत्र द्विजालये । सेवां कुर्वन्स्नेहयुक्तां भूसुरस्य मनोहराम्
अद्य श्वो वा हनिष्यामि द्रव्यमस्य ममापि च । नेतुं यदा करिष्यामि नेष्यामि नात्र संशयः
परामृश्य च हृद्यंतः कृत्वा तस्य क्रियां वदेत् । पादधौतादिकं चासौ शिरसा गतपातकः
आचम्यांघ्रिजलं दध्रेच्छद्मना प्रतिदिनं द्विजः । एकदा हारकः कश्चिद्द्रव्यं नेतुं समागतः
उत्पाट्य रात्रावररं गतोऽसौ तद्गृहांतरम् । दृष्ट्वा भीमं प्रहारार्थं दंडहस्तः समागतः
हारको मस्तकं तस्य छित्त्वा तूर्णं पलायितः । अथ तस्य भटा विष्णोः शंखचक्रगदाधराः
समायातास्तथा नेतुं भीमं तं वीतकिल्बिषम् । स्यंदनं चागतं दिव्यं राजहंसयुतं द्विज
तत्रारूढो ययौ विष्णोर्भवनं दुर्लभं किल । माहात्म्यं भूमिदेवस्य मया ते तत्प्रकीर्तितम् । शृणुयाद्यो नरो भक्त्या तस्य पातकनाशनम्
शौनक उवाच। कथयस्व महाभाग माहात्म्यं पापनाशनम् । एकादश्याः फलं किं वा किल्बिषं स्यादकुर्वतः
सूत उवाच। एकादश्यास्तु माहात्म्यं किमहं वच्मि सांप्रतम् । श्रुत्वा चैकादशीनाम यमदूताश्च शंकिताः
भवंति नात्र संदेहो सर्वप्राणिभयंकराः । व्रतानां चैव सर्वेषां श्रेष्ठां चैकादशीं शुभाम्
उपोष्य जागृयाद्विष्णोः कुर्य्याच्च मंडनं महत् । तुलसीदलैस्तु यो मर्त्यो हरिपूजां करोति वै
दलेनैकेन लभते कोटियज्ञफलं द्विज । अगम्यागमने चैव यत्पापं समुदाहृतम्
तत्पापं याति विलयं चैकादश्यामुपोषणात् । घृतपूर्णं प्रदीपं यो दद्याद्विष्णुदिने द्विज
अंते विष्णुपुरं याति तमो हत्वा स्वतेजसा । धन्या जनपदास्ते वै धन्यः स च महीपतिः
हरेर्दिने यस्य राज्ये चैकादश्या महोत्सवः । नारायणस्य शयने पार्श्वस्य परिवर्त्तने
विशेषेण प्रबोधिन्या निराहारा भवंति ये । मदंति कं नानयध्वंप्राणिनःपुण्यभागिनः
अहर्निशं पितृपतिः समादिशति दूतकान् । एकादशी जगन्नाथ वल्लभा पुण्यवर्धिनी
विष्णुर्देहं दोहत्येव तस्यामन्नस्य भक्षणे । तेषां धिग्जीवनं संपत्धिक्सौंदर्यं च वर्तनम्
येऽन्नमश्नंति पापिष्ठाश्चैकादश्यां हि विड्भुजः । एकादश्यां द्विजश्रेष्ठ भुक्तिमाश्रित्य केवलम्