चांडालैः पतितैः सार्द्धमालापं सर्वदाकरोत् । एतदेवं विधो राजा मृगयायां मनो दधे
अरण्ये द्वीपिनं ज्ञात्वा वेष्टयित्वा च सर्वतः । सावधानं भटान्सर्वान्वाक्यमेतदुवाच ह
अहमेव निहन्म्येनं योऽन्योस्मिन्प्रहरिष्यति । स वध्यो नात्र संदेहो व्याघ्रो राज्ञः पथा ययौ
सलज्जोऽपि ततो राजा व्याघ्रं पश्चाज्जगाम ह । अनेकक्लेशदुःखेन व्याघ्रं हंतुं समाहितः
क्षुत्पिपासाकुलक्लेशः संध्यायां यमुनातटे । अष्टमीरोहिणीयुक्ता तद्दिनं जन्मवासरम्
श्वःकन्या यमुनायां वै व्रतं चक्रुर्नराधिप । नानोपहारैर्द्रव्यैश्च धूपदीपैः सुशोभनैः
गंधपुष्पं तथा द्रव्यं कुंकुमादिमनोहरम् । अन्नं बहुगुणं दृष्ट्वा भोक्तुं तन्मानसंकुलम्
राजोवाच- अन्नाभावान्ममाद्याशु प्राणा यास्यंति निश्चितम् । स्त्रिय ऊचुः- जन्माष्टम्यां हरे राजन्न भोक्तव्यं त्वयानघ
गृध्रमांसं खरं काकं गोमांसमन्नमेव च । भुक्तवान्नात्र संदेहो यो भुंक्ते कृष्णजन्मनि
किं किं छिद्रं न संजातं संसारे वसतां नृणाम् । येन देहेस्थिते प्राणे जयंती न कृता नृप
तत्राकृतोपवासस्य शासनं यममंदिरम् । यद्दत्तं पितरो नित्यं न गृह्णंति यथाविधि
पितरः पातिताः सर्वे जयंत्यां भोजने कृते । इति श्रुत्वा ततो राजा व्रतं चक्रे नराधिप
किंचित्पुष्पं कियद्गंधं वस्त्रं चानीय हर्षितः । एतद्व्रतं समायुक्तं तिथिभांते च पारणम् । व्रतस्यास्य प्रभावेण चित्रसेनो हरेर्गृहम्
दिव्यं विमानमारुह्य गतवान्पितृभिः सह । यत्फलं मथुरां गत्वा दृष्ट्वा कृष्णमुखांबुजम्
तत्फलं प्राप्यते पुंसाकृष्णजन्माष्टमीव्रतात् । यत्फलं द्वारकां गत्वा दृष्टे विश्वेश्वरे हरौ । तत्फलं प्राप्यते दीनैः कृत्वा जन्माष्टमीव्रतम्
शौनक उवाच। कथयस्व महाप्राज्ञ ब्राह्मणस्य कृपार्णव । माहात्म्यं सर्ववर्णानां श्रेष्ठस्य कृपया च मे
सूत उवाच। ब्राह्मणः सर्ववर्णानां गुरुरेव द्विजोत्तम । सर्वामराश्रयो ज्ञेयः साक्षान्नारायणः प्रभुः
कुर्यात्प्रणामं यो विप्रं हरिबुद्ध्या तु भूसुरम् । भक्त्या तस्य द्विजश्रेष्ठ वर्द्धते संपदादिकम्
न नमेद्ब्राह्मणं दृष्ट्वा हेलयापि च गर्वितः । छेदनं तु तस्य शिरः कर्तुमिच्छेत्सदा हरिः
कृतापराधं विप्रं ये द्विषंति पापबुद्धयः । हरिं द्विषंति ते ज्ञेया निरयं यांति दारुणम्
यः कर्तुं प्रार्थनां विप्रं पश्येत्क्रोधेन चागतम् । कृतांतश्चक्षुषोस्तस्य तप्तसूचीं ददाति वै
कुरुते भूसुरं मूढो भर्त्सनं यो नराधमः । यमदूता मुखे तस्य तप्तलोहं ददंति च
येषां निकेतने भुंक्ते क्ष्मासुरो वै तपोधनः । सुपर्वाणैः स्वयं कृष्णो भुंक्ते तेषां निकेतने
नश्यंति सर्वपापानि द्विजहत्यादिकानि च । कणमात्रं भजेद्यस्तु विप्रांघ्रिसलिलं नरः
यो नरश्चरणौधौतं कुर्याद्धस्तेन भक्तितः । द्विजातेर्वच्मि सत्यं ते स मुक्तः सर्वपातकैः
पुत्रहीना च या नारी मृतवत्सा च यांगना । सपुत्रा जीववत्सा सा द्विजपद्मांघ्रिसेवनात्
ब्रह्मांडे यानि तीर्थानि तानि तीर्थानि सागरे । उदधौ यानि तीर्थानि तिष्ठंति द्विजपादयोः । द्विजांघ्रिसलिलैर्नित्यं सेचितं यस्य मस्तकम्
स स्नातः सर्वतीर्थेषु स मुक्तः सर्वपातकैः । शृणु शौनक वक्ष्यामि माहात्म्यं पापनाशनम्
विप्रपादोदकस्याहमितिहासं तपोधन । आसीत्पुरा द्विजश्रेष्ठ वैश्यवृत्तिपरायणः
शूद्रो भीमो द्वापरे च ब्रह्महत्यासहस्रकृत् । निष्ठुरः सर्वदा तुष्टः समहान्वैश्यया पुनः