विना ऋक्षेऽपि कर्तव्या नवमीसंयुताष्टमी । उदये चाष्टमी किंचित्सकला नवमी यदि
मुहूर्तरोहिणीयुक्ता संपूर्णा चाष्टमी भवेत् । अष्टमी बुधवारेण रोहिणीसहिता यदि
सोमेनैव भवेद्राजन्किंकृतैर्व्रतकोटिभिः । नवम्यामुदयात्किंचित्सोमे सापि बुधेऽपि च
अपि वर्षशतेनापि लभ्यते वा न लभ्यते । विना ऋक्षं न कर्तव्या नवमीसंयुताष्टमी
कार्याविद्धापि सप्तम्यां रोहिणीसंयुताष्टमी । कलाकाष्ठामुहूर्तेऽपि यदा कृष्णाष्टमीतिथिः
नवम्यां सैव वा ग्राह्या सप्तमीसंयुता न हि । किं पुनर्बुधवारेण सोमेनापि विशेषतः
किं पुर्नर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा । पलवेधेन राजेंद्र सप्तम्या अष्टमीं त्यजेत्
सुरायाबिंदुनास्पृष्टं गंगांभः कलशं यथा । दिलीप उवाच- केन चादौ कृतं चेदं केन वा तत्प्रकाशितम् । किं पुण्यं किं फलं देव कथयस्व महामुने
वसिष्ठ उवाच- चित्रसेनो महाराजा महापापपरो महान् । अगम्यागमनं कृत्वा स्वर्णस्तेयं द्विजस्य च
सुरायां च सदा तृप्तो वृथामांसे सदा रतः । एवं पापसमायुक्तो नित्यं प्राणिवधे रतः
चांडालैः पतितैः सार्द्धमालापं सर्वदाकरोत् । एतदेवं विधो राजा मृगयायां मनो दधे
अरण्ये द्वीपिनं ज्ञात्वा वेष्टयित्वा च सर्वतः । सावधानं भटान्सर्वान्वाक्यमेतदुवाच ह
अहमेव निहन्म्येनं योऽन्योस्मिन्प्रहरिष्यति । स वध्यो नात्र संदेहो व्याघ्रो राज्ञः पथा ययौ
सलज्जोऽपि ततो राजा व्याघ्रं पश्चाज्जगाम ह । अनेकक्लेशदुःखेन व्याघ्रं हंतुं समाहितः
क्षुत्पिपासाकुलक्लेशः संध्यायां यमुनातटे । अष्टमीरोहिणीयुक्ता तद्दिनं जन्मवासरम्
श्वःकन्या यमुनायां वै व्रतं चक्रुर्नराधिप । नानोपहारैर्द्रव्यैश्च धूपदीपैः सुशोभनैः
गंधपुष्पं तथा द्रव्यं कुंकुमादिमनोहरम् । अन्नं बहुगुणं दृष्ट्वा भोक्तुं तन्मानसंकुलम्
राजोवाच- अन्नाभावान्ममाद्याशु प्राणा यास्यंति निश्चितम् । स्त्रिय ऊचुः- जन्माष्टम्यां हरे राजन्न भोक्तव्यं त्वयानघ
गृध्रमांसं खरं काकं गोमांसमन्नमेव च । भुक्तवान्नात्र संदेहो यो भुंक्ते कृष्णजन्मनि
किं किं छिद्रं न संजातं संसारे वसतां नृणाम् । येन देहेस्थिते प्राणे जयंती न कृता नृप
तत्राकृतोपवासस्य शासनं यममंदिरम् । यद्दत्तं पितरो नित्यं न गृह्णंति यथाविधि
पितरः पातिताः सर्वे जयंत्यां भोजने कृते । इति श्रुत्वा ततो राजा व्रतं चक्रे नराधिप
किंचित्पुष्पं कियद्गंधं वस्त्रं चानीय हर्षितः । एतद्व्रतं समायुक्तं तिथिभांते च पारणम् । व्रतस्यास्य प्रभावेण चित्रसेनो हरेर्गृहम्
दिव्यं विमानमारुह्य गतवान्पितृभिः सह । यत्फलं मथुरां गत्वा दृष्ट्वा कृष्णमुखांबुजम्
तत्फलं प्राप्यते पुंसाकृष्णजन्माष्टमीव्रतात् । यत्फलं द्वारकां गत्वा दृष्टे विश्वेश्वरे हरौ । तत्फलं प्राप्यते दीनैः कृत्वा जन्माष्टमीव्रतम्
शौनक उवाच। कथयस्व महाप्राज्ञ ब्राह्मणस्य कृपार्णव । माहात्म्यं सर्ववर्णानां श्रेष्ठस्य कृपया च मे
सूत उवाच। ब्राह्मणः सर्ववर्णानां गुरुरेव द्विजोत्तम । सर्वामराश्रयो ज्ञेयः साक्षान्नारायणः प्रभुः
कुर्यात्प्रणामं यो विप्रं हरिबुद्ध्या तु भूसुरम् । भक्त्या तस्य द्विजश्रेष्ठ वर्द्धते संपदादिकम्
न नमेद्ब्राह्मणं दृष्ट्वा हेलयापि च गर्वितः । छेदनं तु तस्य शिरः कर्तुमिच्छेत्सदा हरिः
कृतापराधं विप्रं ये द्विषंति पापबुद्धयः । हरिं द्विषंति ते ज्ञेया निरयं यांति दारुणम्