महोपायं पुनः कर्तुं विधिना तेन वंचितः । त्राहि मां जगतां नाथ सुतं रक्ष सुरोत्तम
जनकक्रंदितं दृष्ट्वा कंसारिः कृपया मुहुः । जलक्रीडां समाचर्य पितुःक्रोडमगात्पुनः
यथा तेन यदुश्रेष्ठो जगाम नंदमंदिरम् । सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत्
निजागारं ततः प्राप्य पत्न्यै प्रत्यर्पिता सुता । देवकी च प्रसूतेति वार्ता प्राप्ता सुरारिणा
आनेतुं प्रस्थिता दूताः सुतं दुहितरं तदा । आगत्य कंसदूतास्ते सुतां नेतुं प्रचक्रमुः
बलादेनां समाकृष्य देवकी वसुदेवयोः । कंसदूतैर्गृहीत्वा सा अर्पिता तु सुरारये
स धृत्वा तां महाराजः सभयोऽभूद्दुरासदः । शुद्धकांचनवर्णाभां पूर्णेंदुसदृशाननाम्
कंसो हसंतीं तां दृष्ट्वा विद्युत्स्फुरितलोचनाम् । आदिदेशासुरश्रेष्ठो जहि नीत्वा शिलोपरि
आज्ञां लब्ध्वाऽसुरास्ते वै निष्पेष्टुं तां प्रवर्तिताः । विद्युच्छीघ्रतया गौरी जगाम शंकरांतिकम्
गौर्युवाच- शृणु राजन्प्रवक्ष्यामि यत्रास्ते शत्रुरुत्तमः । नंदस्य निलये गुप्तस्तव हंताऽसुरोत्तम
वसिष्ठ उवाच- एवमुक्त्वा तु सा देवी जगाम निजमंदिरम् । श्रुत्वा वाक्यं ततो देव्याः कंसो राजा सुदुःखितः
भगिनीं पूतनामाह गच्छ त्वं नंदमंदिरम् । छद्मना तं सुतं हत्वा गच्छ ते वांच्छितं बहु
दास्यामि शत्रुं हंतुं मे व्रज शीघ्रतरं शुभे । आज्ञां प्राप्य राक्षसी सा गोकुलाभिमुखं गता
मायया सुंदरी रूपा प्रविष्टा तत्र गोकुले । पयोधरे गरं सा तु धृत्वा हंतुमुपागता
पशुपानां गृहद्वारि प्रविष्टालक्षितेति च । गत्वांतरुत्थाप्य शिशुं स्तनं दत्वापसद्गतिम्
ततस्तु शकटं क्षिप्त्वा तृणावर्तादिमर्दनम् । कालीयदमनं कृत्वा गतो मधुपुरीं ततः
गत्वा कंसो हतः क्रूरः कंसमल्लानजीजयत् । एतत्ते कथितं राजन्विष्णोर्जन्मदिनव्रतम्
श्रुत्वा पापानि नश्यंति कुर्यात्किं वा भविष्यति । य इदं कुरुते मर्त्यो या च नारी हरेर्व्रतम्
ऐश्वर्यमतुलं प्राप्य जन्मन्यत्र यथेप्सितम् । पूर्वविद्धा न कर्त्तव्या तृतीयाषष्ठिरेव च
अष्टम्येकादशीभूता धर्मकामार्थवांच्छुभिः । वर्जयित्वा प्रयत्नेन सप्तमीसंयुताष्टमी
विना ऋक्षेऽपि कर्तव्या नवमीसंयुताष्टमी । उदये चाष्टमी किंचित्सकला नवमी यदि
मुहूर्तरोहिणीयुक्ता संपूर्णा चाष्टमी भवेत् । अष्टमी बुधवारेण रोहिणीसहिता यदि
सोमेनैव भवेद्राजन्किंकृतैर्व्रतकोटिभिः । नवम्यामुदयात्किंचित्सोमे सापि बुधेऽपि च
अपि वर्षशतेनापि लभ्यते वा न लभ्यते । विना ऋक्षं न कर्तव्या नवमीसंयुताष्टमी
कार्याविद्धापि सप्तम्यां रोहिणीसंयुताष्टमी । कलाकाष्ठामुहूर्तेऽपि यदा कृष्णाष्टमीतिथिः
नवम्यां सैव वा ग्राह्या सप्तमीसंयुता न हि । किं पुनर्बुधवारेण सोमेनापि विशेषतः
किं पुर्नर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा । पलवेधेन राजेंद्र सप्तम्या अष्टमीं त्यजेत्
सुरायाबिंदुनास्पृष्टं गंगांभः कलशं यथा । दिलीप उवाच- केन चादौ कृतं चेदं केन वा तत्प्रकाशितम् । किं पुण्यं किं फलं देव कथयस्व महामुने
वसिष्ठ उवाच- चित्रसेनो महाराजा महापापपरो महान् । अगम्यागमनं कृत्वा स्वर्णस्तेयं द्विजस्य च
सुरायां च सदा तृप्तो वृथामांसे सदा रतः । एवं पापसमायुक्तो नित्यं प्राणिवधे रतः