इति तेभ्यः स्तुतिं श्रुत्वा प्रत्युवाच जनार्द्दनः । देवान्क्लिष्टमुखान्सर्वान्भवद्भिरागतं कथम्
ब्रह्मोवाच-। शृणु देव जगन्नाथ यस्मादस्माकमागतम् । कथयामि सुरश्रेष्ठ तदहं लोकभावन
शूलिदत्तवरोन्मत्तः कंसो राजा दुरासदः । वसुधा ताडिता तेन करघातेन पीडिता
वरं दत्वा पुराप्यग्रे मायया तु प्रवंचितः । भागिनेयं विना शंभो मरणं भविता न मे
तस्माद्गच्छ स्वयं देव कंसं हंतुं दुरासदम् । देवकीजठरे जन्म लब्ध्वा गत्वा च गोकुलम्
ब्रह्मणा प्रेरितो देवः प्रत्युवाच च शूलिनम् । पार्वतीं देहि देवेश अब्दं स्थित्वा गमिष्यति
उमया रक्षया सार्द्धं शंखचक्रगदाधरः । उद्दिश्य मथुरां चक्रे प्रयाणं कमलासनः
देवकीजठरे जन्म लेभे तत्र गदाधरः । यशोदाकुक्षिमध्यास्ते शर्वाणी मृगलोचना
नवमासांश्च विश्रम्य कुक्षौ नवदिनांतकान् । भाद्रे मास्यसिते पक्षे चाष्टमीसंज्ञका तिथिः
रोहिणीतारकायुक्ता रजनीघनघोषिता । तस्यां जातो जगन्नाथः कंसारिर्वसुदेवजः
वैराटी नंदपत्नी च यशोदाऽजीजनत्सुताम् । पुत्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम्
तदा हर्षितुमारेभे दृष्ट्वा ह्यानकदुंदुभिः । कंसासुरभयत्रस्ता प्रोवाच देवकी तदा
वैराटीं गच्छ भो नाथ सुतं प्रत्यर्पितं किल । पुत्रं दत्वा यशोदायै सुतां तस्याः समानय
तस्या वचः समाकर्ण्य वसुदेवोऽपि दुःखितः । अंके कुमारमादाय वैराट्यभिमुखंययौ
यमुनाजलसंपूर्णा तत्पथे मध्यवर्त्मनि । आसीद्घोरा महादीर्घा गम्भीरोदकपूरभाक्
एवं दृष्ट्वा तटे स्थित्वा यमुनामवलोकयन् । वसुदेवोऽपि दुःखार्तो विललापातिचिंतया
किं करोमि क्व गच्छामि विधिनापि हि वंचितः । कथमत्र गमिष्यामि वैराटीं नंदमंदिरम्
हरिणा तत्र सानंदं मायया वंचितः पिता । क्षणमात्रं तटे स्थित्वा यमुनामवलोकयन्
तेन दृष्टा पुनः सापि क्षणाज्जानुवहाभवत् । तां दृष्ट्वा हृष्ट उत्तस्थौ प्रस्थानमकरोद्यथा
मायां कृत्वा जगन्नाथः पितुरंकाज्जलेऽपतत् । तं पुत्रं पतितं दृष्ट्वा हाहाकृत्वा सुदुःखितः
महोपायं पुनः कर्तुं विधिना तेन वंचितः । त्राहि मां जगतां नाथ सुतं रक्ष सुरोत्तम
जनकक्रंदितं दृष्ट्वा कंसारिः कृपया मुहुः । जलक्रीडां समाचर्य पितुःक्रोडमगात्पुनः
यथा तेन यदुश्रेष्ठो जगाम नंदमंदिरम् । सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत्
निजागारं ततः प्राप्य पत्न्यै प्रत्यर्पिता सुता । देवकी च प्रसूतेति वार्ता प्राप्ता सुरारिणा
आनेतुं प्रस्थिता दूताः सुतं दुहितरं तदा । आगत्य कंसदूतास्ते सुतां नेतुं प्रचक्रमुः
बलादेनां समाकृष्य देवकी वसुदेवयोः । कंसदूतैर्गृहीत्वा सा अर्पिता तु सुरारये
स धृत्वा तां महाराजः सभयोऽभूद्दुरासदः । शुद्धकांचनवर्णाभां पूर्णेंदुसदृशाननाम्
कंसो हसंतीं तां दृष्ट्वा विद्युत्स्फुरितलोचनाम् । आदिदेशासुरश्रेष्ठो जहि नीत्वा शिलोपरि
आज्ञां लब्ध्वाऽसुरास्ते वै निष्पेष्टुं तां प्रवर्तिताः । विद्युच्छीघ्रतया गौरी जगाम शंकरांतिकम्
गौर्युवाच- शृणु राजन्प्रवक्ष्यामि यत्रास्ते शत्रुरुत्तमः । नंदस्य निलये गुप्तस्तव हंताऽसुरोत्तम