शौनक उवाच- कृष्णजन्माष्टमी सूत तस्या माहात्म्यमुत्तमम् । कथयस्व महाप्राज्ञ चोद्धरस्व महार्णवात्
सूत उवाच- कृष्णजन्माष्टमीं ब्रह्मन्भक्त्या करोति यो नरः । अंते विष्णुपुरं याति कुलकोटियुतो द्विज
अष्टमी बुधवारे च सोमे चैव द्विजोत्तम । रोहिणीऋक्षसंयुक्ता कुलकोटिविमुक्तिदा
महापातकसंयुक्तः करोति व्रतमुत्तमम् । सर्वपापविनिर्मुक्तश्चांते याति हरेर्गृहम्
कृष्णजन्माष्टमीं ब्रह्मन्न करोति नराधमः । इह दुःखमवाप्नोति स प्रेत्य नरकं व्रजेत्
न करोति च या नारी कृष्णजन्माष्टमीव्रतम् । वर्षे वर्षे तु सा मूढा नरकं याति दारुणम्
जन्माष्टमीदिने यो वै नरोऽश्नाति विमूढधीः । महानरकमश्नाति सत्यं सत्यं वदाम्यहम्
दिलीपेन पुरा पृष्टो वसिष्ठो मुनिसत्तमः । तच्छृणुष्व महाप्राज्ञ सर्वपातकनाशनम्
दिलीप उवाच- भाद्रे मास्यसिताष्टम्यां यस्यां जातो जनार्द्दनः । तदहं श्रोतुमिच्छामि कथयस्व महामुने
कथं वा भगवान्जातः शंखचक्रगदाधरः । देवकीजठरे विष्णुः किं कर्तुं केन हेतुना
वसिष्ठ उवाच- शृणु राजन्प्रवक्ष्यामि कस्माज्जातो जनार्द्दनः । पृथिव्यां त्रिदिवं त्यक्त्वा भवते कथयाम्यहम्
पुरा वसुंधरा ह्यासीत्कंसादिनृपपीडिता । स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता
क्रंदती क्रंदती सा तु ययौ घूर्णितलोचना । यत्र तिष्ठति देवेश उमाकांतो वृषध्वजः
कंसेन ताडिता नाथ इति तस्मै निवेदितुम् । बाष्पवारीणि वर्षंति विवर्णा साविमानिता
क्रंदंतीं तां समालोक्य कोपेन स्फुरिताधरः । उमयासहितः सर्वैर्देववृंदैरनुव्रतः
आजगाम महादेवो विधातृभवनं रुषा । गत्वा चोवाच ब्रह्माणं कंसध्वंसनहेतवे
उपायः सृज्यतां ब्रह्मन्भवता विष्णुना सह । ऐश्वरं तद्वचः श्रुत्वा गंतुं प्राह कृतात्मभूः
क्षीरोदे यत्र वैकुंठः सुप्तोऽस्ति भुजगोपरि । हंसपृष्ठं समारुह्य हरेरंतिकमाययौ
तत्र गत्वा च तं धाता देववृंदैर्हरादिभिः । संयुक्तः स्तूयते वाग्भिः कोमलं वाग्विदांवरः
नमः कमलनेत्राय हरये परमात्मने । जगतः पालयित्रे च लक्ष्मीकांत नमोऽस्तु ते
इति तेभ्यः स्तुतिं श्रुत्वा प्रत्युवाच जनार्द्दनः । देवान्क्लिष्टमुखान्सर्वान्भवद्भिरागतं कथम्
ब्रह्मोवाच-। शृणु देव जगन्नाथ यस्मादस्माकमागतम् । कथयामि सुरश्रेष्ठ तदहं लोकभावन
शूलिदत्तवरोन्मत्तः कंसो राजा दुरासदः । वसुधा ताडिता तेन करघातेन पीडिता
वरं दत्वा पुराप्यग्रे मायया तु प्रवंचितः । भागिनेयं विना शंभो मरणं भविता न मे
तस्माद्गच्छ स्वयं देव कंसं हंतुं दुरासदम् । देवकीजठरे जन्म लब्ध्वा गत्वा च गोकुलम्
ब्रह्मणा प्रेरितो देवः प्रत्युवाच च शूलिनम् । पार्वतीं देहि देवेश अब्दं स्थित्वा गमिष्यति
उमया रक्षया सार्द्धं शंखचक्रगदाधरः । उद्दिश्य मथुरां चक्रे प्रयाणं कमलासनः
देवकीजठरे जन्म लेभे तत्र गदाधरः । यशोदाकुक्षिमध्यास्ते शर्वाणी मृगलोचना
नवमासांश्च विश्रम्य कुक्षौ नवदिनांतकान् । भाद्रे मास्यसिते पक्षे चाष्टमीसंज्ञका तिथिः
रोहिणीतारकायुक्ता रजनीघनघोषिता । तस्यां जातो जगन्नाथः कंसारिर्वसुदेवजः