नीतं च तद्धनं भूरि यद्युक्तं तद्विधीयताम् । त्वमस्माकं प्रजानां हि रक्षकः शासकोऽसताम्
नारद उवाच- इत्याकर्ण्य स भूपालो मंत्रिणं पार्श्ववर्तिनम् । उवाच कोपरक्ताक्षः किमेभिः कथ्यते शृणु
शीघ्रमानयतं पापं नोचेत्त्वां घातयाम्यहम् । उत्तिष्ठोत्तिष्ठ पापिष्ठ साधूनां शं विधीयताम्
पीड्यंते विषये यस्य प्रजा दस्युभिरुल्बणैः । स नृपो नरकं याति तेभ्यस्ताश्चेन्न रक्षति
नारद उवाच- निशम्येति वचो राज्ञः सचिवः स शिवे नृपः । वेगेन हयमारुह्य पदातिशतसंयुतः
ययौ गृहे मुकुंदस्य तस्य बंधूनपृच्छत । मुकुंदः केन निहतः सत्यं ब्रूत ममाग्रतः
तं पापं निहनिष्यामि शासनाद्भूपतेरहम् । नारद उवाच- श्रुत्वेति मंत्रिणो वाक्यं प्रत्यूचुर्विप्रबांधवाः
विप्रबांधवा ऊचुः - चंडकेन हतो मंत्रिन्मुकुंदो नापितेन हि । इदं पलायमानस्य तस्योष्णीषं पपात वै
दृष्टः स्वचक्षुषा वध्वा मुकुंदस्यैव सोघकृत् । किं कुर्मस्तेन पापेन मज्जिताः शोकसागरे
नारद उवाच - इत्याकर्ण्य वचस्तेषां बंधूनां ब्राह्मणस्य हि । स मंत्री तस्य पापस्य नापितस्य गृहं ययौ
अश्वादुत्तीर्य तरसा तद्गृहं स्वयमाविशत् । कतिभिः पत्तिभिः सार्द्धं शयानं च ददर्श ह
पत्तयस्तु तदाज्ञप्ताः केशेष्वाकृष्य तत्क्षणात् । तल्पादुत्थापयामासुस्तं पापं नापिताधमम्
किं किमित्येव संजल्पन्नेत्रे उन्मीलयत्यसौ । यावत्स नापितः पापस्तावत्तं ददृशे पुरः
संस्मरंतं निजं कर्म रात्रौ यत्कृतवानघम् । अधोमुखः क्षणं तस्थौ पश्यन्मूर्ध्नि स्थितं यमम्
ग्राहयित्वा च सचिवस्तं पापं च स्वपत्तिभिः । निनाय नृपतेः पार्श्वमिति चोवाच भूपतिम्
आनीतो ब्रह्महा राजन्नयं चंडक नापितः । यदाज्ञापयसि स्वामिंस्तरसा तत्करोम्यहम्
राजोवाच- धर्मज्ञ सचिवश्रेष्ठ शृणु त्वं वचनं मम । इयं सरिद्वरा युष्मंश्चंद्रभागात्र निर्मलाः
त्यजंति येऽत्र वै प्राणाल्लँभंते ते सुरास्पदम् । अत एष न हंतव्यः पापात्मा ह्यत्र नापितः
पंचकोशांतरे ह्यस्या मर्यादाया बहिर्यदि । नरकान्दारुणान्ह्येष ब्रह्महा यातु मा चिरम्
नारदोवाच- इत्युक्तस्तेन वै राज्ञा स राजन्मंत्रिसत्तमः । श्वपचान्प्रेरयामास हंतुं तं भूपशासनात्
श्वपचास्ते तमुन्नीय चंद्रभागापरे तटे । योजनद्वयभूभागं चिच्छिदुस्तस्य मस्तकम्
स पापो मारवे देशे सर्पोऽभूत्कालविग्रहः । धवकोटरमध्यस्थो विषज्वालाकराननः
स शुष्को धववृक्षस्तु तस्य फूत्कारवह्निना । तथा तपनतापेन सरसोऽपि यथा ह्रदः
गमनात्तस्य पापस्य सर्वतो वृक्षमूषरम् । उच्छिद्य तृणजातादि जातं पश्वहितं तदा
तत्र जातु समायातः सार्थो दक्षिणदेशतः । नारायणाश्रमं गच्छन्बदर्याख्यं शिवे नृप
तत्रैको ब्राह्मणः कश्चित्सार्थेसंमीलितः पथि । निश्छिद्रां काष्ठमंजूषां पितृमात्रस्थिसंयुताम्
स्कंधेन धारयन्याति तानि पातयितुं नृप । गंगांभसि महाभाग पापिनामपि कामदे
सोऽप्यागतस्तत्र वने यत्रास्ति स भुजंगमः । विविक्ते क्षिप्य मंजूषां शलाकालोहनिर्मिताम्
अथागत्य भुजंगोऽसौ शलाकां फणयाघटत् । किंचिदुद्धाटितायां स मंजूषायां समाविशत्
पुनः शलाका स्वंस्थानमागताथ स कुंडली । तत्रैव तस्थौ निश्चेष्टो मंजूषायां विषोल्बणः