अथ ते पथ्यगच्छंत विश्वामित्रमुनेः किल । आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः
स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम् । के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम्
राजदूता ऊचुः- शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते । तदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः
नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम् । इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत्
प्राणा ममापि गच्छंतु सुखी भवतु बालकः । बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह
त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः । विमृश्येति मुनिः स्वांते स प्रोवाच द्विजर्षभः
यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम् । हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः
संसारे जन्मसंप्राप्य न लब्धं सुखमत्र च । अनेन बालकेनापि मरिष्यति कथं त्वयम्
आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौ । हतभाग्यौ गतो नूनं यमस्येव गृहं प्रति
एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम् । भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर
नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम् । एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा
स मुनिर्दूतसंघैश्च गतवान्यज्ञमंदिरम् । राजानं कथयामासुर्दूता विप्रस्य चेष्टितम्
तच्छ्रुत्वाशंकितमनाः प्रोवाचेदं वचः स तम् । मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति
बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय
मुनिरुवाच- यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति । अत्र ते संशयो मा भूदमोघमपि दर्शनम्
इति तस्य वचः श्रुत्वा राजात्यंतसहर्षकः । चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह
अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम् । गृह्य दशपुरं नाम नगरं गतवांस्तदा
भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः । गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने
राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम् । पुत्रे गते च भो विप्र दंपत्योरावयोः पुनः
गतानि चांधभावं वै क्रंदनैर्लोचनान्यपि । अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च
उक्तवांस्तौ यदा विप्र ब्राह्मणौ जातहर्षकौ । पुत्रायाकारणं कृत्वा गतावेतौ बहिः क्षणात्
मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोः । आलोकं तु गतं तूर्णं पुत्रस्य दर्शनादपि
पुत्रस्य मुखपद्मं तौ लोचनैरलिसंनिभैः । पीत्वा मुनिं चिरंतं च नमस्कृत्य पुनः पुनः
प्रोचतुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौ । अहो मुने जीवदानमावयोः सुकृतं किल
तयोरेव वचः श्रुत्वा स मुनिः करुणार्णवः । दत्वाशिषं च तौ विप्र जगाम निजमाश्रमम्
मुनिः करगतं चैव कृत्वा विष्णोः परं पदम् । तपस्तेपे महाभागो दैवतैरपि दुर्ल्लभम्
किंचित्काले गते विप्र तस्य राज्ञोऽभवत्सुतः । सुंदरो राजयोग्यश्च इंदुःक्षीरनिधाविव । पुत्रोत्सवे सोऽपि विप्र राजा दत्वा धनानि वै
बुभुजे देववद्भूम्यां विशोको जातकौतुकः । विप्रान्पालयते यस्तु प्राणान्दत्वा धनान्यपि
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् । पठंति येऽत्र भक्त्या च शृण्वंति विप्रतः कथाम्
आख्यानं श्लोकमेकं वा गच्छंति विष्णुमंदिरम्