इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताः । बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः
यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा । बद्धांजलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः
पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम् । नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः
द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम् । प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम
तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा । पपात वात्यया सार्द्धं रंभेव भृशदुःखिनी
मुद्गरं सा समादाय मौलौ चाताडयद्बलात् । कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा
एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतः । प्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन्
माता यदि विषं दद्यात्पित्रा विक्रीयते सुतः । राजा हरति सर्वस्वं कस्तत्र पालको भवेत्
इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सह । दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च
अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ । रुदित्वा च रुदित्वा च अंधभावं प्रजग्मतुः
अथ ते पथ्यगच्छंत विश्वामित्रमुनेः किल । आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः
स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम् । के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम्
राजदूता ऊचुः- शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते । तदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः
नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम् । इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत्
प्राणा ममापि गच्छंतु सुखी भवतु बालकः । बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह
त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः । विमृश्येति मुनिः स्वांते स प्रोवाच द्विजर्षभः
यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम् । हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः
संसारे जन्मसंप्राप्य न लब्धं सुखमत्र च । अनेन बालकेनापि मरिष्यति कथं त्वयम्
आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौ । हतभाग्यौ गतो नूनं यमस्येव गृहं प्रति
एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम् । भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर
नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम् । एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा
स मुनिर्दूतसंघैश्च गतवान्यज्ञमंदिरम् । राजानं कथयामासुर्दूता विप्रस्य चेष्टितम्
तच्छ्रुत्वाशंकितमनाः प्रोवाचेदं वचः स तम् । मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति
बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय
मुनिरुवाच- यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति । अत्र ते संशयो मा भूदमोघमपि दर्शनम्
इति तस्य वचः श्रुत्वा राजात्यंतसहर्षकः । चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह
अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम् । गृह्य दशपुरं नाम नगरं गतवांस्तदा
भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः । गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने
राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम् । पुत्रे गते च भो विप्र दंपत्योरावयोः पुनः
गतानि चांधभावं वै क्रंदनैर्लोचनान्यपि । अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च