वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया । येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम्
गालव उवाच- राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः । कथयामि समासेन पुत्रस्योद्भवकारणम्
क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम । तदा ते संततिः स्याद्वै सर्वलक्षणसंयुता
राजोवाच- नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज । कीदृशं नरमानीय करिष्यामि गुरो वद
गालव उवाच- सुंदरांगः सुवदनः समस्तशास्त्रविद्भवेत् । सत्कुले यदि जातः स तदा यज्ञाय कल्पते
अंगहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहि । इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः
प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः । द्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान्
यज्ञार्थे वरयामास समस्तशास्त्रपारगान् । ततो राजाज्ञया दूताः देशं देशं मुदा गताः
ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः । कुत्रापि न प्राप्तवंतो गता जनपदं ततः
नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैः । यत्र नारीः सुकेशीश्च मृगशावक चक्षुषः
दृष्ट्वा मुह्यंति पुरुषाश्चंद्रमुख्यश्च ता यतः । तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः
आसीत्पुत्रैस्त्रिभिः सार्द्धं भार्यया च सुशीलया । वैष्णवः प्रियवादी च विष्णुपूजारतः सदा
साग्निकः पितृभक्तश्च वैष्णवानां प्रियंकरः । प्रार्थनां चक्रुरथ ते राज्ञो दूता द्विजोत्तमम्
पुत्रं देहीति देहीति वद ब्राह्मणसत्तम । नास्ति राज्ञो द्विजश्रेष्ठ पुत्रः संतापनाशनः
तदर्थं नरमेधाख्ये यज्ञेभव स दीक्षितः । नेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ
सुवर्णानां चतुर्लक्षं ब्रह्मन्नय समाहितः । सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात्
तदा बलेन नेष्यामो राजाज्ञाकारिणो वयम् । दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ
अभूतां विगतप्राणाविव संशयमानसौ । किं धनेन सुवर्णेन जीवनेनापि सद्मना । प्रोवाचेदं वचः सोऽपि ब्राह्मणो राजपूरुषान्
ब्राह्मण उवाच- यदि दूताः समानेतुं पुत्रं शोकतमोपहम् । आगता निश्चितं यूयं शृणुध्वं वचनं मम
स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति । पुत्रं हित्वा किंतु यूयं वृद्धं मां नयत द्विजम्
इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताः । बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः
यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा । बद्धांजलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः
पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम् । नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः
द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम् । प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम
तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा । पपात वात्यया सार्द्धं रंभेव भृशदुःखिनी
मुद्गरं सा समादाय मौलौ चाताडयद्बलात् । कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा
एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतः । प्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन्
माता यदि विषं दद्यात्पित्रा विक्रीयते सुतः । राजा हरति सर्वस्वं कस्तत्र पालको भवेत्
इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सह । दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च
अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ । रुदित्वा च रुदित्वा च अंधभावं प्रजग्मतुः