दुहितुः सदनं यातुं निःससार गृहागतः । तत्रैव सरसीकूले प्रविवेश च दुःखिनी
तथैनां च समानीतां यथा स्याः प्राणवल्लभाम् । तथैव पूजयामास मातृस्नेहात्पतिव्रता
एतस्मिन्समये विप्र लक्ष्मीवासरमुत्तमम् । श्यामाबाला कारयितुं मनश्चक्रे च मातरम्
तस्या माता दरिद्राणि भुक्त्वा वैकांतिकेपि च । शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता
इंदिरायास्तृतीयानि वासराणि गतान्यपि । चतुर्थवासरे तां तत्कारयामास सा दृढम्
आगता नगरं सा वै राज्ञी सुरतिचंद्रिका । दृष्ट्वा गृहं तथा दिव्यमिंदिरायाः प्रसादतः
श्यामाबाला च विप्रेंद्र कदाचित्समये पुनः । मातुर्गृहं गता चाथ ऐश्वर्यस्य दिदृक्षया
श्यामाबालां ततो दूराद्दृष्ट्वा संकुपिता च सा । न पश्यामि मुखं तस्या इत्युक्त्वालक्षिता स्थिता
गत्वा गृहांतरालं च गृहीत्वा सैंधवं च सा । आगता स्वगृहं किंचित्तूष्णीं लक्ष्मीसमाश्रितम्
राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम् । किमानीतं त्वया कांते कथयस्व ममाग्रतः
कांतोवाच- राज्यसारं समानीतं दर्शयिष्यामि भोजने । इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना
अन्नादिकं ततो दत्वा मालाधराय भूभुजे । ततो मालाधरो राजा व्यंजनं लवणवर्जितम्
भुक्त्वा वैगुण्यतां प्राप्तो राज्यसारं ददौ च सा । तदा हृष्टमना राजा भोजनं कृतवान्द्विज
प्रशशंस च तां नारीं धन्याधन्या इति ब्रुवन् । एतद्व्रतं च या नारी न करोति महादरात्
जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेत् । इदं या शृणुयाद्भक्त्या पठेद्यो वा समाहितः
सर्वपापैर्विनिर्मुक्तो लक्ष्मीलोकं लभेच्च सः । इमां व्रतकथां या तु न श्रुत्वा क्रियते व्रतम् । तस्या व्रतफलं चैव नश्यत्येव न संशयः
शौनक उवाच- केन पुण्येन भो सूत चान्येन गतपातकः । नरो याति हरेः स्थानं तद्वदस्वानुकंपया
सूत उवाच- ब्राह्मणस्य धनैः प्राणान्प्राणैर्वापि द्विजोत्तम । रक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति
पुरा राजा दीननाथो द्वापरे संज्ञके युगे । आसीदपुत्रो बलवान्वैष्णवः स तु याजकः
एकदा गालवं राजा पप्रच्छ विनयान्वितः । केन पुण्येन जायेत पुत्रो वै करुणार्णव
वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया । येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम्
गालव उवाच- राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः । कथयामि समासेन पुत्रस्योद्भवकारणम्
क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम । तदा ते संततिः स्याद्वै सर्वलक्षणसंयुता
राजोवाच- नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज । कीदृशं नरमानीय करिष्यामि गुरो वद
गालव उवाच- सुंदरांगः सुवदनः समस्तशास्त्रविद्भवेत् । सत्कुले यदि जातः स तदा यज्ञाय कल्पते
अंगहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहि । इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः
प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः । द्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान्
यज्ञार्थे वरयामास समस्तशास्त्रपारगान् । ततो राजाज्ञया दूताः देशं देशं मुदा गताः
ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः । कुत्रापि न प्राप्तवंतो गता जनपदं ततः
नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैः । यत्र नारीः सुकेशीश्च मृगशावक चक्षुषः