जरंतीं ब्राह्मणीं चैव प्रहारं च चकार सा । ततः सा कमला वृद्धा क्रंदमाना पलायिता
क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम् । आगतास्याः समीपं तु श्रुत्वा बाला तपोधना
श्यामाबालोवाच- वृद्धे व्यथेदृशी केन दत्ता तुभ्यं वदस्व मे । तस्या वचनमाकर्ण्य शोकगद्गदया गिरा
कमला कथितं सर्वं वृत्तांतं द्विजसत्तम । श्यामाबाला ततः श्रुत्वा व्रतं परमदुर्ल्लभम्
शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः । त्रिवारे परिपूर्णे तु तुर्यवारे समागते
विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादतः । श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः
मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः । अथ तस्यां गतायां तु ब्रह्मन्शृणुष्व कौतुकम्
राज्ञीगृहे च सर्वाणि स्थितानि सुबहूनि च । द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर
निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता । उपविष्टा च केनापि गंतुं च दुहितुर्गृहम्
प्रेषयामास भर्त्तारं किंचित्प्रार्थनहेतवे । तस्य मालाधरस्यापि ग्रामे च सरसीतटे
कालेन कियता विप्र प्रविवेश च कष्टतः । तस्माज्जलं समानेतुं तस्या दास्यः समागताः । तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्छुः सानुकंपिताः
दास्य ऊचुः- कस्त्वं कुतः समायातो मांसरक्तविवर्ज्जितः । रूक्षांगो रूक्षकेशश्च तत्सर्वं कथयस्व नः
दरिद्र उवाच- श्यामाबालापिता चाहं सौराष्ट्रनगरागतः । कथयध्वं च भो दास्यः श्यामाबालासमीपतः
तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः । परस्परमुखाः सर्वा जहसुः स्वपुरं गताः
श्यामाबाला च कथितं सर्वं वृत्तं च भो द्विज । श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान्
पुष्पतैलं दिव्यवस्त्रं चंदनं पर्णवीटिकाम् । घोटकं च तथा दत्वा पितरं प्रति सुंदरी
गत्वाथ सर्वे ते भृत्याः कृत्वा सुवेषमुत्तमम् । श्यामाबालागृहं निन्युर्देवराजगृहोपमम्
श्यामाबाला ततश्चैव पितरं दुखिनां वरम् । श्याल्यन्नं सघृतं चैव भोजयामास यत्नतः
तुर्येषु समतीतेषु दिवसेषु तपोधन । प्रेषयामास तं दत्वा गुप्तपात्रस्थितं धनम्
ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम् । ददर्शांगारनिचयं रुरोद भृशदुःखितः
दुहितुः सदनं यातुं निःससार गृहागतः । तत्रैव सरसीकूले प्रविवेश च दुःखिनी
तथैनां च समानीतां यथा स्याः प्राणवल्लभाम् । तथैव पूजयामास मातृस्नेहात्पतिव्रता
एतस्मिन्समये विप्र लक्ष्मीवासरमुत्तमम् । श्यामाबाला कारयितुं मनश्चक्रे च मातरम्
तस्या माता दरिद्राणि भुक्त्वा वैकांतिकेपि च । शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता
इंदिरायास्तृतीयानि वासराणि गतान्यपि । चतुर्थवासरे तां तत्कारयामास सा दृढम्
आगता नगरं सा वै राज्ञी सुरतिचंद्रिका । दृष्ट्वा गृहं तथा दिव्यमिंदिरायाः प्रसादतः
श्यामाबाला च विप्रेंद्र कदाचित्समये पुनः । मातुर्गृहं गता चाथ ऐश्वर्यस्य दिदृक्षया
श्यामाबालां ततो दूराद्दृष्ट्वा संकुपिता च सा । न पश्यामि मुखं तस्या इत्युक्त्वालक्षिता स्थिता
गत्वा गृहांतरालं च गृहीत्वा सैंधवं च सा । आगता स्वगृहं किंचित्तूष्णीं लक्ष्मीसमाश्रितम्
राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम् । किमानीतं त्वया कांते कथयस्व ममाग्रतः