तृतीये खंडसंयुक्तं दध्योदननिवेदनम् । शामाक शालि कासारैश्चतुर्थे पूजयेन्मुदा
लक्ष्मीदेवीं प्रयत्नेन रत्नदंडकरे ततः । लक्ष्मीदेवी प्रीतये तु ब्राह्मणान्पूजयेद्धनैः
वस्त्रालंकारभोज्यैश्च फलैर्नानाविधैस्तथा । पोष्योवाच- अत्रैव तिष्ठ भो वृद्धे राज्ञीं सुरतिचंद्रिकाम्
विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे । इत्युक्त्वा सा तु चार्वंगी गता राज्ञीसमीपतः
शिरस्यंजलिमाधाय पोष्या ब्रह्मन्समूलतः । आरभ्य सांगपर्यंतं यदूचे कमलालया
तत्सर्वं कथयामास राज्ञीं सुरतिचंद्रिकाम् । द्वारपालीवचः श्रुत्वा राज्ञी सुरतिचंद्रिका
जगाम ब्राह्मणीपार्श्वं सगर्वा प्राह सुंदर । राज्ञ्युवाच- वृद्धे ब्राह्मणि किं वृत्तं चोपदेशार्थमागता
कथयस्व चिरं मह्यं भयं त्यक्त्वा यथासुखम् । ब्राह्मण्युवाच- तवानीतिमहं दृष्ट्वा गंतुमिच्छामि चंचला
कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम् । इंदिरावासरे चाद्य चांडालेन करोषि यत्
तद्दृष्टं मयि का दुष्टे तद्गेहे गर्वितेऽधुना । तच्छ्रुत्वा ब्राह्मणीवाक्यं क्रोधसंरक्तलोचना
जरंतीं ब्राह्मणीं चैव प्रहारं च चकार सा । ततः सा कमला वृद्धा क्रंदमाना पलायिता
क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम् । आगतास्याः समीपं तु श्रुत्वा बाला तपोधना
श्यामाबालोवाच- वृद्धे व्यथेदृशी केन दत्ता तुभ्यं वदस्व मे । तस्या वचनमाकर्ण्य शोकगद्गदया गिरा
कमला कथितं सर्वं वृत्तांतं द्विजसत्तम । श्यामाबाला ततः श्रुत्वा व्रतं परमदुर्ल्लभम्
शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः । त्रिवारे परिपूर्णे तु तुर्यवारे समागते
विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादतः । श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः
मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः । अथ तस्यां गतायां तु ब्रह्मन्शृणुष्व कौतुकम्
राज्ञीगृहे च सर्वाणि स्थितानि सुबहूनि च । द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर
निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता । उपविष्टा च केनापि गंतुं च दुहितुर्गृहम्
प्रेषयामास भर्त्तारं किंचित्प्रार्थनहेतवे । तस्य मालाधरस्यापि ग्रामे च सरसीतटे
कालेन कियता विप्र प्रविवेश च कष्टतः । तस्माज्जलं समानेतुं तस्या दास्यः समागताः । तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्छुः सानुकंपिताः
दास्य ऊचुः- कस्त्वं कुतः समायातो मांसरक्तविवर्ज्जितः । रूक्षांगो रूक्षकेशश्च तत्सर्वं कथयस्व नः
दरिद्र उवाच- श्यामाबालापिता चाहं सौराष्ट्रनगरागतः । कथयध्वं च भो दास्यः श्यामाबालासमीपतः
तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः । परस्परमुखाः सर्वा जहसुः स्वपुरं गताः
श्यामाबाला च कथितं सर्वं वृत्तं च भो द्विज । श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान्
पुष्पतैलं दिव्यवस्त्रं चंदनं पर्णवीटिकाम् । घोटकं च तथा दत्वा पितरं प्रति सुंदरी
गत्वाथ सर्वे ते भृत्याः कृत्वा सुवेषमुत्तमम् । श्यामाबालागृहं निन्युर्देवराजगृहोपमम्
श्यामाबाला ततश्चैव पितरं दुखिनां वरम् । श्याल्यन्नं सघृतं चैव भोजयामास यत्नतः
तुर्येषु समतीतेषु दिवसेषु तपोधन । प्रेषयामास तं दत्वा गुप्तपात्रस्थितं धनम्
ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम् । ददर्शांगारनिचयं रुरोद भृशदुःखितः