सुधां तत्खादितुं चक्रुर्देवाः पंक्तिं यथाक्रमम् । श्रीविष्णोराज्ञया सर्वे चोचुश्चैव परस्परम्
त्वं च देहि त्वं च देहि त्वं च देहीति चाब्रुवन् । न शक्तोऽस्मि न शक्तोऽस्मि न शक्तोऽस्मीति चाब्रुवन्
ततो विष्णुः समुत्तस्थौ स्त्रीरूपं च दधार ह । चकार स्वर्णपात्रे तत्पीयूषपरिवेषणम्
पीयूषभक्षणं राहुर्यावत्कुर्याद्द्विजोत्तम । चंद्रसूर्यौ चोक्तवंतौ राक्षसोऽसौ छलागतः
ततः क्रुद्धो जगन्नाथो जघान स्वर्णपात्रतः । शिरस्तस्य पपातोर्व्यां केतुर्नाम्ना बभूव ह
राहुकेतू ततस्तूर्णं गतौ तौ भयविह्वलौ । इदानीं तद्दिने प्राप्ते चंद्रसूर्यौ स युध्यति
कुर्याद्ग्रासं सैंहिकेयस्तत्क्षणं दुर्लभं भवेत् । सर्वं गंगासमं तोयं वेदव्याससमा द्विजाः
स्नानं वायसतीर्थे यो गंगास्नानफलं लभेत् । दानमक्षयपुण्यं स्यात्कोटिजन्मार्जितं तथा
पापं नश्येत्समूलं च किं पुनः क्रतुकोटिभिः । विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्यते
मोक्षार्थी लभते मोक्षं मंत्रसिद्धिर्भवेद्ध्रुवम् । इति ते कथितं विप्र समुद्रमथनं तु तत्
शौनक उवाच- इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः । हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित
निरहंकार हे सूत लोकानुग्रहकारक । केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा
पतिप्रियांग केन स्याद्रूपिता चक्षुषोः सुधा । केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधन
सूत उवाच- यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम् । शृणुष्व भोः समासेन कथयामि विधानतः
आसीद्भद्रश्रवा राजा युगे द्वापरसंज्ञके । सौराष्ट्रदेशवासी च वेदवेदांगपारगः
भार्या तस्य च संजाता नाम्ना सुरतिचंद्रिका । तस्यां बभूवुः श्रीराज्ञः सप्तपुत्रा मनोरमाः
ततोऽभिजाता दुहिता सुंदरी सत्यवादिनी । श्यामबाला च विप्रेंद्र नाम्ना प्रीतिकरी पितुः
अथैकदा श्यामबाला सुवर्णसिकतासु च । गूढैर्मनोहरै रत्नैः सखिभिः क्रीडितुं मुदा
जगाम नीपवृक्षस्य तलं परमदुर्लभम् । एतस्मिन्नंतरे विप्र लक्ष्मीः संसारतारिणी
लोकानां नीतिदा साथ समायाता स्वयं पुरः । धृत्वा च ब्राह्मणीरूपं पलितांगी च भूसुर
अखिलानां च लोकानां शास्तू राज्ञः क्षयं विना । केषां क्षुद्रतराणां हि गृहे गच्छामि सांप्रतम्
इति संचिंत्य मनसा गता राजनिकेतनम् । सुवर्णभित्तिभिर्युक्तं पताकाभिरलंकृतम्
सिंहद्वारमतिक्रम्य प्राह दौवारिकीं ततः । द्वारं जहि हि भो द्वारि नियुक्ते शुभलक्षणे
यामि वेगेन पश्यामि राज्ञीं सुरतिचंद्रिकाम् । तच्छ्रुत्वा वचनं तस्या रत्नदंडकरा च सा । कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ
द्वारनियुक्तोवाच- किं नाम वहसे वृद्धे कः पतिस्तावकः पुनः । आगतासि कथं किं ते कार्य्यं राज्ञ्याश्च दर्शने । कस्मात्किं ब्रूहि विप्रे त्वं श्रोतुं कौतुहलं हि मे
वृद्धोवाच- शृणु पोष्ये महाराज पत्न्या दंडकरे यदा । श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणम्
प्रसिद्धा कमला नाम्ना चाहं प्राणेश्वरो मम । भुवनेश इति ख्यातो नाम्ना द्वारवतीपुरी
तस्यां वै वर्त्तते पोष्ये मम प्राणेश्वरस्ततः । आगताहं रत्नवेत्रकरे शृणु सकौतुकम्
ममागमनकार्यं हि वच्मीदानीं तवाग्रतः । पुरासीद्वैश्यकुलजा राज्ञी तव च दुःखिनी
एकस्मिन्दिवसे पोष्ये पतिना कलहः कृतः । तया नार्या च दुःखिन्या ततो वै भर्तृपीडिता