ततः प्रसन्ना सा देवी सर्वान्देवानुवाच ह । वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः
देवा ऊचुः- प्रसीद कमले देवि सर्वमातर्हरिप्रिये । त्वया विना जगच्छून्यं कुरु प्राणप्ररक्षणम्
इत्युक्ता सा महालक्ष्मीः प्राह नारायणप्रिया । इदानीं सर्वजंतूनां प्राणरक्षां करोम्यहम्
ततो नारायणः श्रीमाञ्छंखचक्रगदाधरः । आविर्बभूव सहसा दयालुर्जगदीश्वरः
ततस्ते तुष्टुवुर्देवाः प्रणम्य जगतां पतिम् । कृतांजलिपुटाः प्रोचुः हर्षगद्गदभाषिणः
गृहाण मातरं विष्णो महिषीं वल्लभां तव । संसाररक्षणार्थाय लक्ष्मीमनपगामिनीम् । यावत्प्रतिज्ञां नो चक्रे तावत्प्राहेंदिरा हरिम्
लक्ष्मीरुवाच- अविवाह्य कथं ज्येष्ठामलक्ष्मीं मधुसूदन । तस्याः कनिष्ठां मां नाथ विवाहं कर्तुमिच्छसि । ज्येष्ठायां च स्थितायां वै कनिष्ठा परिणीयते
सूत उवाच- इति श्रुत्वा ततो विष्णुर्ददौ चोद्दालकाय च । वेदवाक्यानुरूपेण ह्यलक्ष्मीं निर्जरैः सह
ततो नारायणः श्रीमान्लक्ष्मीमंगीचकार ह । ततः सुरगणाः सर्वे नमश्चक्रुः पुनःपुनः
अथ ते चासुरान्सर्वान्जघ्नुः सर्वे बलाधिकाः । सर्वे ते क्रंदमानाश्च गताश्चैव दिशो दश
सुधां तत्खादितुं चक्रुर्देवाः पंक्तिं यथाक्रमम् । श्रीविष्णोराज्ञया सर्वे चोचुश्चैव परस्परम्
त्वं च देहि त्वं च देहि त्वं च देहीति चाब्रुवन् । न शक्तोऽस्मि न शक्तोऽस्मि न शक्तोऽस्मीति चाब्रुवन्
ततो विष्णुः समुत्तस्थौ स्त्रीरूपं च दधार ह । चकार स्वर्णपात्रे तत्पीयूषपरिवेषणम्
पीयूषभक्षणं राहुर्यावत्कुर्याद्द्विजोत्तम । चंद्रसूर्यौ चोक्तवंतौ राक्षसोऽसौ छलागतः
ततः क्रुद्धो जगन्नाथो जघान स्वर्णपात्रतः । शिरस्तस्य पपातोर्व्यां केतुर्नाम्ना बभूव ह
राहुकेतू ततस्तूर्णं गतौ तौ भयविह्वलौ । इदानीं तद्दिने प्राप्ते चंद्रसूर्यौ स युध्यति
कुर्याद्ग्रासं सैंहिकेयस्तत्क्षणं दुर्लभं भवेत् । सर्वं गंगासमं तोयं वेदव्याससमा द्विजाः
स्नानं वायसतीर्थे यो गंगास्नानफलं लभेत् । दानमक्षयपुण्यं स्यात्कोटिजन्मार्जितं तथा
पापं नश्येत्समूलं च किं पुनः क्रतुकोटिभिः । विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्यते
मोक्षार्थी लभते मोक्षं मंत्रसिद्धिर्भवेद्ध्रुवम् । इति ते कथितं विप्र समुद्रमथनं तु तत्
शौनक उवाच- इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः । हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित
निरहंकार हे सूत लोकानुग्रहकारक । केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा
पतिप्रियांग केन स्याद्रूपिता चक्षुषोः सुधा । केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधन
सूत उवाच- यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम् । शृणुष्व भोः समासेन कथयामि विधानतः
आसीद्भद्रश्रवा राजा युगे द्वापरसंज्ञके । सौराष्ट्रदेशवासी च वेदवेदांगपारगः
भार्या तस्य च संजाता नाम्ना सुरतिचंद्रिका । तस्यां बभूवुः श्रीराज्ञः सप्तपुत्रा मनोरमाः
ततोऽभिजाता दुहिता सुंदरी सत्यवादिनी । श्यामबाला च विप्रेंद्र नाम्ना प्रीतिकरी पितुः
अथैकदा श्यामबाला सुवर्णसिकतासु च । गूढैर्मनोहरै रत्नैः सखिभिः क्रीडितुं मुदा
जगाम नीपवृक्षस्य तलं परमदुर्लभम् । एतस्मिन्नंतरे विप्र लक्ष्मीः संसारतारिणी
लोकानां नीतिदा साथ समायाता स्वयं पुरः । धृत्वा च ब्राह्मणीरूपं पलितांगी च भूसुर