योजपेत्प्रयतो भक्त्या प्रणवाद्यं नमोंऽतिकम् । विषभोगाग्निजं तस्य नास्ति मृत्योर्भयं तथा
ततो हृष्टमना देवा ममंथुः क्षीरसागरम् । ततोऽलक्ष्मीः समुत्पन्ना कालास्या रक्तलोचना
रूक्षपिंगलकेशा च जरतीं बिभ्रती तनुम् । सा च ज्येष्ठाब्रवीद्देवान्किंकर्तव्यं मयेति वै
देवास्तथाब्रुवंस्तां च देवीं दुःखस्यभाजनम् । येषां नॄणां गृहे देवी कलहः संप्रवर्तते
तत्र स्थानं प्रयच्छामो वस ज्येष्ठे शुभान्विता । निष्ठुरं वचनं ये च वदंति येऽनृतं नराः
संध्यायां ये हि चाश्नंति दुःखदा तिष्ठ तद्गृहे । कपालकेशभस्मास्थि तुषांगाराणि यत्र तु
स्थानं ज्येष्ठे तत्र तव भविष्यति न संशयः । अकृत्वा पादयोर्धौतं ये चाश्नंति नराधमाः
तद्गृहे सर्वदा तिष्ठ दुःखदारिद्रदायिनी । वालुकालवणांगारैः कुर्वंति दंतधावनम्
तेषां गेहे सदा तिष्ठ दुःखदा कलिना सह । छत्राकं श्रीफलं शिष्टं ये खादंति नराधमाः
गेहे तेषां तव स्थानं ज्येष्ठे कलुषदायिनि । तिलपिष्टमलाबुं ये गृंजनं पोतिकादलम्
कलं बुकं पलांडुं ये चाश्नंति पापबुद्धयः । तेषां गृहे तव स्थानं भविष्यति न संशयः
गुरु देवातिथीनां च यज्ञदानविवर्जितम् । यत्रवेदध्वनिर्नास्ति तत्र तिष्ठ सदाऽशुभे
दंपत्योः कलहो यत्र पितृदेवार्चनं न वै । दुरोदररता यत्र तत्र तिष्ठ सदाशुभे
परदाररता यत्र परद्रव्यापहारिणः । विप्रसज्जनवृद्धानां यत्र पूजा न विद्यते । तत्र स्थाने सदा तिष्ठ पापदारिद्र्यदायिनी
इत्यादिश्य सुरा ज्येष्ठां सर्वेषां कलिवल्लभाम् । क्षीराब्धेर्मथनं चक्रुः पुनस्ते सुसमाहिताः
सूत उवाच- ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः । धन्वंतरिः पारिजातः सुरभिश्चाप्सरोदयः
ततः प्रभातसमये द्वादश्यामुदिते रवौ । उत्पन्ना श्रीर्महालक्ष्मीः सर्वलक्षणशोभिता
ददृशुस्तां महादेवीं मातरं धर्मदेवताः । प्रहृष्टाः सर्वजंतूनां श्रीकृष्णहृदयालयाम्
लक्ष्मीभ्राता शीतरश्मिर्जातश्च सुधया ततः । उत्पन्ना सा हरेर्जाया तुलसी लोकपावनी
तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः । समेत्य मातरं स्तुत्वा जेपुः श्रीसूक्तमुत्तमम्
ततः प्रसन्ना सा देवी सर्वान्देवानुवाच ह । वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः
देवा ऊचुः- प्रसीद कमले देवि सर्वमातर्हरिप्रिये । त्वया विना जगच्छून्यं कुरु प्राणप्ररक्षणम्
इत्युक्ता सा महालक्ष्मीः प्राह नारायणप्रिया । इदानीं सर्वजंतूनां प्राणरक्षां करोम्यहम्
ततो नारायणः श्रीमाञ्छंखचक्रगदाधरः । आविर्बभूव सहसा दयालुर्जगदीश्वरः
ततस्ते तुष्टुवुर्देवाः प्रणम्य जगतां पतिम् । कृतांजलिपुटाः प्रोचुः हर्षगद्गदभाषिणः
गृहाण मातरं विष्णो महिषीं वल्लभां तव । संसाररक्षणार्थाय लक्ष्मीमनपगामिनीम् । यावत्प्रतिज्ञां नो चक्रे तावत्प्राहेंदिरा हरिम्
लक्ष्मीरुवाच- अविवाह्य कथं ज्येष्ठामलक्ष्मीं मधुसूदन । तस्याः कनिष्ठां मां नाथ विवाहं कर्तुमिच्छसि । ज्येष्ठायां च स्थितायां वै कनिष्ठा परिणीयते
सूत उवाच- इति श्रुत्वा ततो विष्णुर्ददौ चोद्दालकाय च । वेदवाक्यानुरूपेण ह्यलक्ष्मीं निर्जरैः सह
ततो नारायणः श्रीमान्लक्ष्मीमंगीचकार ह । ततः सुरगणाः सर्वे नमश्चक्रुः पुनःपुनः
अथ ते चासुरान्सर्वान्जघ्नुः सर्वे बलाधिकाः । सर्वे ते क्रंदमानाश्च गताश्चैव दिशो दश