शौनक उवाच- समुद्रमथनं सूत पुरा कस्मात्कृतं गुरो
सूत उवाच- ब्रह्मन्वच्मि समासेन सिंधोर्मथनकारणम्
महातपा महातेजा दुर्वासा ईश्वरांशजः
तस्मिन्ददर्श काले तं गजारूढंv शचीपतिम्
गृहीत्वा तां स्रजं चेंद्रो विन्यस्य गजमूर्द्धनि ।। देवराट्प्रययौ ब्रह्मन्ससैन्यो नंदनं प्रति
हस्ती चादाय तां मालां छित्त्वा तु धरणीतले
त्रैलोक्यैकश्रियायुक्तो यस्मात्त्वमवमन्यसे
ततः शक्रो जगामाशु सुप्तश्च स्वपुरं पुनः
नष्टमंतर्द्धानवत्यां तदा तस्यां जगत्त्रयम्
न ववर्षुर्वारिवाहाः शुष्काश्चैव जलाशयाः
क्षुत्पिपासार्दिताः सर्वे ब्रह्मणः सन्निधिं ययुः
देवानां वचनं श्रुत्वा धाता देवगणैः सह
विष्णुं समर्चयामास क्षीराब्धेरुत्तरे तटे
ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम्
पीतवस्त्रं चतुर्बाहुं शंखचक्रगदाधरम्
विष्णुं भवोदधेः पोतं वनमालाविभूषितम्
तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरंतरम् वरदोऽस्मि तद्वदत वो ददामि च नान्यथा
देवा ऊचुः- कृपालो ब्रह्मशापेन संपद्धीनं जगत्त्रयम्
रक्ष सर्वानिमाँल्लोकान्याताः स्म शरणं तव ।। श्रीभगवानुवाच- इंदिरा ब्रह्मशापेन चान्तर्द्धानं गता सुराः
यस्याः कटाक्षमात्रेण जगदैश्वर्यसंयुतम्
मंदरं घर्घरं कृत्वा सर्पराजेन वेष्टितम्
तस्मादुत्पत्स्यते लक्ष्मीर्जगन्माता च भोः सुराः
धारयाम्यहमेवाद्रिं कूर्मरूपेण सर्वतः जग्मुः सुरासुराः सर्वे समुद्रमथनं द्विज
सूत उवाच- ततोऽमरगणास्ते च सगंधर्वाः सदानवा । उत्पाट्य मंदरं शैलं चिक्षिपुः पयसां निधौ
ततः सनातनः श्रीमान्दयालुर्जगदीश्वरः । अधारयद्गिरेर्मूलं कूर्मरूपेण पृष्ठतः
अनंतं तत्र संवेष्ट्य ममंथुर्दुग्धसागरम् । एकादश्यां मथ्यमाने चोद्भूतं प्रथमं द्विज
कालकूटविषं ते तु दृष्ट्वा सर्वे प्रदुद्रुवुः । ततस्तान्विद्रुतान्दृष्ट्वा शंकरश्चोक्तवानिदम्
भोभोऽमरगणा यूयं विषं कुरुतमादरम् । वारयिष्याम्यहं तूर्णं कालकूटं महाविषम्
इत्युक्त्वा पार्वतीनाथो ध्यायन्नारायणं हृदि । महामंत्रं समुच्चार्य विषमादद्भयंकरम्
महामंत्रप्रभावेण विषं जीर्णं गतं महत् । अच्युतानंतगोविंद इति नामत्रयं हरेः