तया बहूनि पापानि कृतानि सुदृढानि च । एकदा साधनाकांक्षी निःसृत्य पुरतः स्वतः
गतान्यनगरं तत्र दृष्ट्वा सुज्ञ जनान्बहून् । राधाष्टमीव्रतपरान्सुंदरे देवतालये
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः । भक्तिभावैः पूजयंतो राधाया मूर्तिमुत्तमाम्
केचिद्गायंति नृत्यंति पठंति स्तवमुत्तमम् । तालवेणुमृदंगांश्च वादयंति च के मुदा
तांस्तांस्तथाविधान्दृष्ट्वा कौतूहलसमन्विता । जगाम तत्समीपं सा पप्रच्छ विनयान्विता
भोभोः पुण्यात्मानो यूयं किं कुर्वंतो मुदान्विताः । कथयध्वं पुण्यवंतो मां चैव विनयान्विताम्
तस्यास्तु वचनं श्रुत्वा परकार्यहितेरताः । आरेभिरे तदा वक्तुं वैष्णवा व्रततत्पराः
राधाव्रतिन ऊचुः- भाद्रे मासि सिताष्टम्यां जाता श्रीराधिका यतः । अष्टमी साद्य संप्राप्ता तां कुर्वाम प्रयत्नतः
गोघातजनितं पापं स्तेयजं ब्रह्मघातजम् । परस्त्रीहरणाच्चैव तथा च गुरुतल्पजम्
विश्वासघातजं चैव स्त्रीहत्याजनितं तथा । एतानि नाशयत्याशु कृता या चाष्टमी नृणाम्
तेषां च वचनं श्रुत्वा सर्वपातकनाशनम् । करिष्याम्यहमित्येव परामृष्य पुनः पुनः
तत्रैव व्रतिभिः सार्द्धं कृत्वा सा व्रतमुत्तमम् । दैवात्सा पंचतां याता सर्पघातेन निर्मला
ततो यमाज्ञया दूताः पाशमुद्गरपाणयः । आगतास्तां समानेतुं बबंधुरतिकृच्छ्रतः
यदा नेतुं मनश्चक्रुर्यमस्य सदनं प्रति । तदागता विष्णुदूताः शंखचक्रगदाधराः
हिरण्मयं विमानं च राजहंसयुतं शुभम् । छेदनं चक्रधाराभिः पाशं कृत्वा त्वरान्विताः
रथे चारोपयामासुस्तां नारीं गतकिल्बिषाम् । निन्युर्विष्णुपुरं ते च गोलोकाख्यं मनोहरम्
कृष्णेन राधया तत्र स्थिता व्रतप्रसादतः । राधाष्टमीव्रतं तात यो न कुर्य्याच्च मूढधीः
नरकान्निष्कृतिर्नास्ति कोटिकल्पशतैरपि । स्त्रियश्च या न कुर्वंति व्रतमेतच्छुभप्रदम्
राधाविष्णोः प्रीतिकरं सर्वपापप्रणाशनम् । अंते यमपुरीं गत्वा पतंति नरके चिरम्
कदाचिज्जन्मचासाद्य पृथिव्यां विधवा ध्रुवम् । एकदा पृथिवी वत्स दुष्टसंघैश्च ताडिता
गौर्भूत्वा च भृशं दीना चाययौ सा ममांतिकम् । निवेदयामास दुःखं रुदंती च पुनः पुनः
तद्वाक्यं च समाकर्ण्य गतोऽहं विष्णुसंनिधिम् । कृष्णे निवेदितश्चाशु पृथिव्या दुःखसंचयः
तेनोक्तं गच्छ भो ब्रह्मन्देवैः सार्द्धं च भूतले । अहं तत्रापि गच्छामि पश्चान्ममगणैः सह
तच्छ्रुत्वा सहितो दैवैरागतः पृथिवीतलम् । ततः कृष्णः समाहूय राधां प्राणगरीयसीम्
उवाच वचनं देवि गच्छेहं पृथिवीतलम् । पृथिवीभारनाशाय गच्छ त्वं मर्त्त्यमंडलम्
इति श्रुत्वापि सा राधाप्यागता पृथिवीं ततः । भाद्रे मासि सिते पक्षे अष्टमीसंज्ञिके तिथौ
वृषभानो र्यज्ञभूमौ जाता सा राधिका दिवा । यज्ञार्थं शोधितायां च दृष्टा सा दिव्यरूपिणी
राजानं दमना भूत्वा तां प्राप्य निजमंदिरम् । दत्तवान्महिषीं नीत्वा सा च तां पर्यपालयत्
इति ते कथितं वत्स त्वया पृष्टं च यद्वचः । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः
सूत उवाच- य इदं शृणुयाद्भक्त्या चतुर्वर्गफलप्रदम् । सर्वपापविनिर्मुक्तश्चांतेयातिहरेर्गृहम्