तेन पुण्यप्रभावेण गणिका गतपातका । वैकुंठं प्रति सा याति निर्गता तव दंडतः
सूत उवाच- इति श्रुत्वा ततो दूता यमोऽपि वचनं द्विज । व्यापारे चान्यतश्चित्तं ददौ सा गणिकापि च
आरूढा स्यंदने दिव्ये राजहंसयुते तथा । विष्णुलोकं ययौ सा च वेष्टिता विष्णुकिंकरैः
श्रीविष्णोराज्ञया साथ कुलकोटियुतापि च । तस्थौ सौधगृहे विप्र नानाभोगं चकार ह
भक्त्या यो वै हरेर्गेहे दद्याच्चूर्णं प्रयत्नतः । पुण्यं किं वा भवेत्तस्य न जाने द्विजपुंगव
भक्त्याध्यायं पठेद्यो वै शृणोति सादरेण च । सर्वपापविनिर्मुक्तो यात्यसौ हरिमंदिरम्
शौनक उवाच- कथयस्व महाप्राज्ञ गोलोकं याति कर्मणा । सुमते दुस्तरात्केन जनः संसारसागरात् । राधायाश्चाष्टमी सूत तस्या माहात्म्यमुत्तमम्
सूत उवाच- ब्रह्माणं नारदोऽपृच्छत्पुरा चैतन्महामुने । तच्छृणुष्व समासेन पृष्टवान्स इति द्विज
नारद उवाच- पितामह महाप्राज्ञ सर्वशास्त्रविदां वर । राधाजन्माष्टमी तात कथयस्व ममाग्रतः
तस्याः पुण्यफलं किंवा कृतं केन पुरा विभो । अकुर्वतां जनानां हि किल्बिषं किं भवेद्द्विज
केनैव तु विधानेन कर्त्तव्यं तद्व्रतं कदा । कस्माज्जाता च सा राधा तन्मे कथय मूलतः
ब्रह्मोवाच- राधाजन्माष्टमीं वत्स शृणुष्व सुसमाहितः । कथयामि समासेन समग्रं हरिणा विना
कथितुं तत्फलं पुण्यं न शक्नोत्यपि नारद । कोटिजन्मार्जितं पापं ब्रह्महत्यादिकं महत्
कुर्वंति ये सकृद्भक्त्या तेषां नश्यति तत्क्षणात् । एकादश्याः सहस्रेण यत्फलं लभते नरः
राधाजन्माष्टमी पुण्यं तस्माच्छतगुणाधिकम् । मेरुतुल्यसुवर्णानि दत्वा यत्फलमाप्यते
सकृद्राधाष्टमीं कृत्वा तस्माच्छतगुणाधिकम् । कन्यादानसहस्रेण यत्पुण्यं प्राप्यते जनैः
वृषभानुसुताष्टम्या तत्फलं प्राप्यते जनैः । गंगादिषु च तीर्थेषु स्नात्वा तु यत्फलं लभेत्
कृष्णप्राणप्रियाष्टम्याः फलं प्राप्नोति मानवः । एतद्व्रतं तु यः पापी हेलया श्रद्धयापि वा
करोति विष्णुसदनं गच्छेत्कोटिकुलान्वितः । पुरा कृतयुगे वत्स वरनारी सुशोभना
सुमध्या हरिणीनेत्रा शुभांगी चारुहासिनी । सुकेशी चारुकर्णी च नाम्ना लीलावती स्मृता
तया बहूनि पापानि कृतानि सुदृढानि च । एकदा साधनाकांक्षी निःसृत्य पुरतः स्वतः
गतान्यनगरं तत्र दृष्ट्वा सुज्ञ जनान्बहून् । राधाष्टमीव्रतपरान्सुंदरे देवतालये
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः । भक्तिभावैः पूजयंतो राधाया मूर्तिमुत्तमाम्
केचिद्गायंति नृत्यंति पठंति स्तवमुत्तमम् । तालवेणुमृदंगांश्च वादयंति च के मुदा
तांस्तांस्तथाविधान्दृष्ट्वा कौतूहलसमन्विता । जगाम तत्समीपं सा पप्रच्छ विनयान्विता
भोभोः पुण्यात्मानो यूयं किं कुर्वंतो मुदान्विताः । कथयध्वं पुण्यवंतो मां चैव विनयान्विताम्
तस्यास्तु वचनं श्रुत्वा परकार्यहितेरताः । आरेभिरे तदा वक्तुं वैष्णवा व्रततत्पराः
राधाव्रतिन ऊचुः- भाद्रे मासि सिताष्टम्यां जाता श्रीराधिका यतः । अष्टमी साद्य संप्राप्ता तां कुर्वाम प्रयत्नतः
गोघातजनितं पापं स्तेयजं ब्रह्मघातजम् । परस्त्रीहरणाच्चैव तथा च गुरुतल्पजम्
विश्वासघातजं चैव स्त्रीहत्याजनितं तथा । एतानि नाशयत्याशु कृता या चाष्टमी नृणाम्