प्रेषिता देवदेवेन तद्भक्तवत्सलेन च । कृष्णजीमूतसंकाशाः स्फुरद्वदनपंकजाः
श्रेणीधराश्चारुनासा दिव्यकुंडलभूषिताः । ददृशुः पथि गच्छंतो विष्णोर्दूतामहात्मनः
विष्णुदूता ऊचुः- के यूयं विकृताकारा लक्ष्यंते कर्बुरा इव । इमां विष्णोः प्रियतमां नीत्वा क्व व्रजथोत्तमाम् । इदं वचनमाकर्ण्य तेषां ते तु द्रुतं ययुः
अथ ते क्रोधसंपन्ना विष्णोर्दूता महाबलाः । जघ्नुस्ते संदेशहरान्यमस्य जगतः प्रभोः
चक्रादिशस्त्रसंघैश्च सूर्यकोटिसमप्रभैः । कृतांतस्य भटाः सर्वे रुदंतस्ते पलायिताः
यमं प्रोचुः सभीताश्च वृत्तांतं सकलं द्विज । यमोऽपि तत्कथां श्रुत्वा चित्रगुप्तमुवाच ह
धर्म उवाच- केन पुण्येन भो मंत्रिन्वेश्या मुक्तिं समागता । एतन्मे पृच्छत सर्वं कथयस्व यथार्हतः
चित्रगुप्त उवाच- तया पापान्यर्जितानि जन्मतः सुबहून्यपि । किंत्वाकर्णय लोकेश यदि स्यात्पुण्यमस्ति तत्
गणिकैकदा धर्म्मराज सर्वालंकारभूषिता । कांचित्पुरीं जगामाशु जारकांक्षी धनार्थिनी
तत्र देवालये तस्मिन्स्थित्वा तांबूलभक्षणं । कृत्वा तच्छेषचूर्णं तु ददौ भित्तौ तु कौतुकात्
तेन पुण्यप्रभावेण गणिका गतपातका । वैकुंठं प्रति सा याति निर्गता तव दंडतः
सूत उवाच- इति श्रुत्वा ततो दूता यमोऽपि वचनं द्विज । व्यापारे चान्यतश्चित्तं ददौ सा गणिकापि च
आरूढा स्यंदने दिव्ये राजहंसयुते तथा । विष्णुलोकं ययौ सा च वेष्टिता विष्णुकिंकरैः
श्रीविष्णोराज्ञया साथ कुलकोटियुतापि च । तस्थौ सौधगृहे विप्र नानाभोगं चकार ह
भक्त्या यो वै हरेर्गेहे दद्याच्चूर्णं प्रयत्नतः । पुण्यं किं वा भवेत्तस्य न जाने द्विजपुंगव
भक्त्याध्यायं पठेद्यो वै शृणोति सादरेण च । सर्वपापविनिर्मुक्तो यात्यसौ हरिमंदिरम्
शौनक उवाच- कथयस्व महाप्राज्ञ गोलोकं याति कर्मणा । सुमते दुस्तरात्केन जनः संसारसागरात् । राधायाश्चाष्टमी सूत तस्या माहात्म्यमुत्तमम्
सूत उवाच- ब्रह्माणं नारदोऽपृच्छत्पुरा चैतन्महामुने । तच्छृणुष्व समासेन पृष्टवान्स इति द्विज
नारद उवाच- पितामह महाप्राज्ञ सर्वशास्त्रविदां वर । राधाजन्माष्टमी तात कथयस्व ममाग्रतः
तस्याः पुण्यफलं किंवा कृतं केन पुरा विभो । अकुर्वतां जनानां हि किल्बिषं किं भवेद्द्विज
केनैव तु विधानेन कर्त्तव्यं तद्व्रतं कदा । कस्माज्जाता च सा राधा तन्मे कथय मूलतः
ब्रह्मोवाच- राधाजन्माष्टमीं वत्स शृणुष्व सुसमाहितः । कथयामि समासेन समग्रं हरिणा विना
कथितुं तत्फलं पुण्यं न शक्नोत्यपि नारद । कोटिजन्मार्जितं पापं ब्रह्महत्यादिकं महत्
कुर्वंति ये सकृद्भक्त्या तेषां नश्यति तत्क्षणात् । एकादश्याः सहस्रेण यत्फलं लभते नरः
राधाजन्माष्टमी पुण्यं तस्माच्छतगुणाधिकम् । मेरुतुल्यसुवर्णानि दत्वा यत्फलमाप्यते
सकृद्राधाष्टमीं कृत्वा तस्माच्छतगुणाधिकम् । कन्यादानसहस्रेण यत्पुण्यं प्राप्यते जनैः
वृषभानुसुताष्टम्या तत्फलं प्राप्यते जनैः । गंगादिषु च तीर्थेषु स्नात्वा तु यत्फलं लभेत्
कृष्णप्राणप्रियाष्टम्याः फलं प्राप्नोति मानवः । एतद्व्रतं तु यः पापी हेलया श्रद्धयापि वा
करोति विष्णुसदनं गच्छेत्कोटिकुलान्वितः । पुरा कृतयुगे वत्स वरनारी सुशोभना
सुमध्या हरिणीनेत्रा शुभांगी चारुहासिनी । सुकेशी चारुकर्णी च नाम्ना लीलावती स्मृता