पतितेष्वस्थिखंडेषु तीर्थेऽस्मिन्नुतमोत्तमे । गुरुलोपोद्भवं पापं सद्यो नष्टं ममाभवत
तीर्थस्यास्य प्रसादेन लब्धा च स्वर्गतिर्मया । सुखं स्वर्गे निवत्स्यामि यावदिंद्राश्चतुर्दश
यमस्य नगरे तस्मिन्याः प्रजा निवसंति वै । पापिनां भयदायिन्यो धर्मिणां ता मनोहराः
सिंहास्या गजकोलास्या महादंष्ट्रोन्नतोदरीः । बिडालास्याः पिंगकेश्यो भामिन्यो दीर्घपत्कराः
तीर्थस्यास्य प्रसादेन निःपापोहं यदाभवम् । तदा मया प्रजा दृष्टा दिव्यरूपा यमालये
सर्वास्ताः सत्यवादिन्यो विनयाचारसंचिताः । दिव्याभरणधारिण्यो दिव्यांबरविभूषिताः
इत्येतत्कथितं तात यत्पृष्टोऽहं त्वयानघ । अनुजानीहि मां गंतुममरेशपुरीं प्रति
नारद उवाच- इत्याकर्ण्य स सन्यासी स्वशिष्योक्तं वचस्तदा । भूयः पप्रच्छ धर्मात्मा मुकुंदं तं द्विजं नृप
वेदायन उवाच- बाल्यावधि गुरुस्नेहं मत्तोऽधीतं त्वयाखिलम् । शब्दशास्त्रसमेतश्च वेदस्तु सपदक्रमः
विहिता मम शुश्रूषा भावेन भवतोत्तमा । त्वयि संति सतां साधो गुणाः शमदमादयः
गुरुलोपकृतं पापं कथं ते समजायत । एतदाख्याहि मे तात यथा जानामि तत्वतः
मुकुंद उवाच- जन्मोपवीतकन्यानां धातारो निगमस्य च । यज्ञोपवीतदातुश्च नाज्ञाभंगः कृतो मया
श्वश्रुश्वशुरयोः सेवा भृत्येनेव कृता मया । तवापि शास्त्रदातुश्च नाज्ञाभंगः कृतो मया
पुरोधा यः कुलाचार्यो वेदवेदांतपारगः। तस्यापराद्धं केचिन्मे तत्र त्वं श्रोतुमर्हसि
यद्यस्माकं कुले पुत्रो जायते धर्मकोविद । तदा पुरोधसे धेनुमेकां वा तस्य दक्षिणाम्
दत्त्वा संच्छिद्यते नालमिति वंशस्य नः स्थितिः । पुरा ममैव पुत्रे तु जातमात्रे शुभेऽहनि
कुलक्रिया मया तात न कृता मूढबुद्धिना । तस्याश्चाकरणेनैव गुरुलोपकरोऽभवम्
निवेदितमिदं सर्वं गुरुलोपाद्यथा मम । पापमासीदनुज्ञा मे देहि यामि सुरालयम्
वेदायन उवाच- इंद्रप्रस्थांतरावर्तिन्येषा या कोशला शुभा । स्मृतिरस्याः प्रसादेन दृश्यते पूर्वजन्मनः
केन पुण्येन तीर्थेऽस्मिन्नस्थीनि पतितानि ते । मुकुंदाख्याहि चैतस्य स्मृतिरस्ति तवानघ
मुकंद उवाच- एकस्तु ब्राह्मणः कश्चित्सायं मद्गृहमागतः । तस्मै स्थानं मया दत्तं भोजनं च यथाविधि
सोऽपि भुक्त्वा यथाकामं सुष्वाप शयने शुभे । निशीथे तस्य सर्वांगे ज्वरोऽभूदति दारुणः
तेन पीडितसर्वांगो निद्रां लेभे न स द्विजः । प्रभात एव तत्याज प्राणान्मृत्यावुपस्थिते
तस्य दाहादि कर्माणि विहितानि मया गुरो । तदस्थीनि च गंगायां पातितानि विधानतः
तेन पुण्येन मेस्थीनि पतितानि शिवप्रदे । तीर्थेऽस्मिन्कोशले नाम्नि ब्रह्मदेवविनिर्मिते
नारद उवाच- स्वचरितमितिराजन्स द्विजः प्रोच्य सद्यः सुरसुभगशरीरो द्यां ययौ यानगत्या । इदमकथित मया तं तस्करात्प्राप्य मृत्युं व्यलभत दिवमेतत्तीर्थराजप्रसादात्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मुकुंदोपाख्याने दशाधिकद्विशततमोऽध्यायः
नारद उवाच- शिवे तवपुरः सर्वं मुकंदाख्यानमुत्तमम् । कथितं चंडकस्यापि नापितस्य शृणुष्व मे
यस्मिन्दिने मुकुंदस्तु ब्राह्मणस्तेन घातितः । चंडकेन तदा राजंस्तद्वृत्तं नागरैः श्रुतम्
श्रुत्वा तैस्तन्नृपस्याग्रे निवेदितमिति स्फुटम् । नागरा ऊचुः । चंडकेन हतो राजन्मुकुंदो ब्राह्मणोत्तमः