तुलसीवनजा छाया यत्र यत्र भवेद्दिवज । तर्पणं कुरुते तत्र पितॄणां दत्तमक्षयम्
तस्य मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः । मंजर्यां वसते रुद्रः तुलसी तेन पावनी
विना यस्तुलसीं कुर्यात्संध्याकाले तु मार्जनम् । तत्सर्वं राक्षसहृतं नरकं च प्रयच्छति
तुलसीपत्रगलितं तोयं यः शिरसावहेत् । गंगाफलमवाप्नोति शतधेनुफलं लभेत्
शिवालये विशेषेण रोपयेत्तुलसीं यदि । बीजसंख्या वसेत्स्वर्गे प्रत्येकं युगसंख्यया
उमया तु पुरा देवि शंकरार्थं हिमालये । रोपिताः शतवृक्षास्तु तुलस्याः प्रणतोऽस्म्यहम्
पर्वण्यवसरे यस्तु श्रावणे चाथ रोपयेत् । संक्रांतिदिवसे चैव तुलसी चातिपुण्यदा
तुलसीं पूजयेन्नित्यं दरिद्र ईश्वरो भवेत् । सर्वसिद्धिकरामूर्तिः कृष्णः कीर्तिं ददाति च
शालग्रामशिला यत्र तत्र संनिहितो हरिः । तत्र स्नानं च दानं च वाराणस्यां शताधिकम्
कुरुक्षेत्रं प्रयागं च नैमिषारण्यमेव च । तस्य कोटिगुणं पुण्यं शालग्रामशिलार्चनात्
शालग्राममयी मुद्रा संस्थिता यत्र हि क्वचित् । वाराणस्यां च यत्पुण्यं सर्वं तत्रैव तद्भवेत्
ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः । तत्सर्वं नाशयेदाशु शालग्रामशिलार्चनात्
नारदउवाच- एवं तुलस्या माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया । सांप्रतं तु समाचक्ष्व त्रिरात्रं तुलसीव्रतम्
सदाशिव उवाच- शृणु विप्र महाबुद्धे व्रतमेतत्पुरातनम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
पुरा रैभ्यंतरे कल्पे राजा ह्यासीत्प्रजापतिः । तस्य भार्या च विख्याता चंद्ररूपा महासती
सा वै व्रतमिदं चक्रे सर्वकामफलप्रदम् । त्रिरात्रं तु व्रतं तस्या धर्मकामार्थ मोक्षदम्
सफलं जीवितं तेषां यैः श्रुतं तुलसीव्रतम् । कार्तिके शुक्लपक्षे तु नवम्यां चैव नारद
नियमस्थो व्रती तिष्ठेद्भूमिशायी जितेंद्रियः । व्रतं त्रिरात्रमुद्दिश्य शुचिः संयतमानसः
स्वपेन्नियमपूर्वं तु तुलसीवनसंनिधौ । ततो मध्याह्नसमये नद्यादौ विमले जले
स्नानं कृत्वा पितॄन्देवांस्तर्पयेद्विधिपूर्वकम् । सुवर्णं कारयेद्देवं लक्ष्म्या सह जनार्दनम्
वित्तशाठ्यं न कर्तव्यमात्मनः श्रेयमिच्छता । वस्त्रयुग्मं ततः कार्यं पीते शुक्लेऽपि वाससी । नवग्रहाणामारंभं शांतिकं विधिपूर्वकम्
श्रपयित्वा चरुं तत्र वैष्णवं होममाचरेत् । द्वादश्यां देवदेवेशं पूजयित्वा प्रयत्नतः
अव्रणं शुद्धकलशं स्थापयेद्विधिपूर्वकम् । पंचरत्नसमोपेतं पल्लवैश्चोषधीयुतम्
तस्योपरिन्यसेत्पात्रे लक्ष्म्या सह जनार्दनम् । स्थापयेत्तुलसीमूले मंत्रैर्वेदपुराणकैः
पयसा केवलेनैव सिंचयेत्तुलसीवनम् । पंचामृतेन संस्नाप्य देवदेवं जगद्गुरुम्
योऽनंतरूपोऽखिलविश्वरूपो गर्भोदके लोकविधिं बिभर्त्ति । प्रसीदतामेष सदेव देवो यो मायया विश्वकृदेष देवी
प्रार्थनामंत्रः । आगच्छाच्युत देवेश तेजोराशे जगत्पते । सदैव तिमिरध्वंसी पाहि मां भवसागरात्
आवाहनमंत्रः । पंचामृतेन सुस्नानं तथा गंधोदकेन च । गंगादीनां च तोयेन स्नातोऽनंतःप्रसीदतु
स्नानमंत्रः । श्रीखंडागुरुकर्पूरं कुंकुमादिविलेपनम् । भक्त्या दत्तं मया देव लक्ष्म्या सह गृहाण वै
विलेपनमंत्रः । नारायण नमस्तेऽस्तु नरकार्णवतारण । त्रैलोक्याधिपते तुभ्यं ददामि वसने शुभे