राजोवाच- इदानीं केन पुण्येन सुतो वै जायते प्रभो । अपुत्रस्य मनुष्याणां जीवनं हि निरर्थकम्
व्यास उवाच- सवस्त्रं चैव कूष्मांडं वृषभं ससुवर्णकम् । देहि दानं ब्राह्मणस्य कुरु बालव्रतं तथा
गौरीं कन्यां तथा देहि पुराणश्रवणं कुरु । पुत्रो वै जायते तत्र सर्वपातकनाशनम्
ब्रह्मोवाच- इति श्रुत्वा ततो राजा व्यासोक्तं दानमुत्तमम् । पुराणश्रवणं चैव चकार गतकिल्बिषः
ततः पुत्रो वर्षमध्ये बभूव सर्वपूजितः । अभूद्राजा सार्वभौमः सुंदरः कुलनायकः
सूत उवाच- य इदं शृणुयाद्भक्त्या करोति दानमुत्तमम् । अपुत्रो लभते पुत्रं संक्षेपात्कथितं मया
भक्त्या श्रुत्वा तु या नारी कुर्याद्ब्राह्मणपूजनम् । सुपुत्रा सा भवेन्नित्यं शास्त्रोक्तविधिना द्विज
सुवर्णं रजतं वस्त्रं पुष्पमाल्यं च चंदनम् । यो दद्यात्पुस्तके भक्त्या सर्वपापप्रणाशनम्
पूर्वजन्मनि यो मूढो ब्रह्मबालकघातकः । तस्य क्रूरो भवेत्पुत्रः सप्तजन्मांतरैर्द्विजः
शौनक उवाच- केन पुण्येन भो सूत वैकुंठं समवाप्यते । तद्वदस्व शृण्वतो मे पोतो हि भवसागरे
सूत उवाच- साधुसाधु मुनिश्रेष्ठ सर्वमंगलकारक । कथयामि समासेन शृण्वतां पापनाशनम्
विष्णवे ब्राह्मणायैव मृदावेश्मविनिर्मितम् । यो वै दद्याद्द्विजश्रेष्ठ तस्य पुण्यं निशामय
विष्णुलोके च स विप्रः सर्वपापविवर्जितः । सौधवासी भवेन्नित्यं विष्णुलोके प्रपूज्यते
विष्णवे सौधगेहं यो दद्याद्वै ब्राह्मणाय च । हरेर्न्निकेतनं प्राप्य स्वर्गवासी भवेद्ध्रुवम्
अंते विष्णुपुरं गत्वा युक्तः कोटिकुलैर्द्विज । स्वर्णसौधे गृहे स्थित्वा कुर्याद्भोगं यथासुखम्
ब्राह्मणस्थापने पुण्यं यद्वै भवति भो मुने । संख्यां कर्तुमशक्तस्तु तद्वेधाः सर्वकारकः
गण्यंते रेणवश्चैव गण्यंते वृष्टिबिंदवः । न गण्यंते विधात्रापि ब्रह्मसंस्थापने फलम्
नारदेन पुरा ब्रह्मा पृष्टः संसारसंभवः । वेधास्तं कथयामास तच्छृणुष्व महामुने
पुरासीद्द्वापरे ब्रह्मन्वारनारी सुशोभना । सुकेशी हरिणीनेत्रा सुमध्या चारुहासिनी
नाम्ना सा चंचलापांगी ययौ देशांतरं कदा । सर्वपापसमायुक्ता नरके पातयंति च
संगेन सिंधुनाकांक्षी जनान्देवालयं गता । तत्र क्षणं सोपविष्टा तांबूलभक्षणं कृतम्
शेषं चूर्णं सौधभित्तौ दत्वा निम्ने कुतूहलात् । ततो गता जारकांक्षी धनार्थं नगरं प्रति
जारेण केनचित्सार्द्धं संकेतः सहसा कृतः । संकेतं तु गता वेश्या वनं रात्रौ विमोहिता
संकेतं नागतो वैश्यो व्यशंकिष्टविलोकिता । कथं कांतो नागतो मे सर्पव्याघ्रैश्च भक्षितः
संकेतनं कथं हित्वा गतः किं कामविह्वलः । अन्यया ज्ञातया सार्द्धमभिलाषी भवेत्किमु
परामृष्यैतद्हृद्यंतः कोटपालभयाद्द्विज । नगरं नागता सा हि रुद्धे लोकपथे तमैः
एतस्मिन्नंतरे व्याघ्रः कामरूपी बलात्क्षुधी । प्रेषितः कालदेवेनाग्रसदागत्य तां द्विज
ततस्तु यमुनाभ्रातुर्दूतास्ते भीमवर्षिणः । आगता गिरिकूटांगा नेतुं तां पापकर्मणा
वक्रपादा वक्रमुखा उन्नासा बहुदंष्ट्रिणः । चर्मरज्जूर्मुद्गरांश्च गृहीत्वा पांशुलां द्विज
बंधयामासुरुन्मत्ता गणिकां चर्म्मरज्जुभिः । शंखचक्रगदापद्मधारिणो वनमालिनः