पूर्वजन्मनि या नारी परबालकघातनम् । करोति कपटेनैव बालहीना भवेद्ध्रुवम्
सौवर्णप्रतिमादानं या नारी श्रद्धयान्विता । कुर्यात्पानं ब्राह्मणस्य भक्त्या वै चरणोदकम्
पुराणश्रवणं चैव दद्याद्वै बहुदक्षिणाम् । बह्वपत्या जीववत्सा भवेन्नास्त्यत्र संशयः
जले निमग्नं बालं यो दृष्ट्वा या न समुद्धरेत् । इह जन्मन्यपुत्रो वै साऽपुत्री च भवेद्ध्रुवम्
वृषभं चैव कूष्मांडं ससुवर्णं सवस्त्रकम् । दद्याद्दानं ब्राह्मणस्य कुर्याद्बालव्रतं शुभम्
गौरीं कन्यां तथा कुर्यात्पुराणश्रवणं हि यः । पुत्रो वै जायते तस्य सर्वपातकनाशनम्
पूर्वजन्मनि यो मर्त्यो निराशं चातिथिं द्विज । कुर्यात्क्रोधेन दंडं च पुत्रहीनो भवेद्ध्रुवम्
ब्राह्मणं चातिथिं चैव कुर्याद्भक्त्या प्रपूजनम् । अन्नदानं जलं चैव तथा देवालयं शुभम्
पूर्वजन्मनि या नारी भ्रूणहत्यां च यो नरः । कुर्यात्सा मृतवत्सा च मृतवत्सो भवेद्ध्रुवम्
या नारी स्वामिसहिता कुर्याच्च हरिवासरम् । सुपुत्रा भर्तृसुभगा भवेत्सा प्रतिजन्मनि
यो नरो गोधनं कुर्याच्छूद्रः कुर्याद्विमोहितः । ब्राह्मणीहरणं वापि कर्मणा स नपुंसकः
इदं तु वृजिनं कृत्वा पश्चात्पुण्यं करोति यः । इह पुण्यप्रभावेण दुहिता जायते द्विज
आसीत्त्रेतायुगे राजा श्रीधरो नामतो द्विज । अपुत्रो धनवांस्तस्य जाया हेमप्रभावती
व्यासं सकलशास्त्रज्ञं सर्वलोकहितैषिणम् । आगतं चैव पप्रच्छ चापुत्रोऽहं कथं द्विज
उवाच नृपतेः श्रुत्वा वचनं विनयान्वितम् । राज्ञा दत्ते च पीठे च निर्मिते कनकादिभिः
राजाराज्ञी तस्य पादौ धौतं कृत्वा च हर्षितौ । पीत्वा पादोदकं द्वौ च सर्वपातकनाशनम्
व्यास उवाच- राजन्शृणुष्व यत्पृष्टमपुत्रो येन कर्मणा । तवेयं राज्ञी चापुत्री चैकपत्नीव्रतस्तथा
पूर्वजन्मनि चंद्रस्त्वं नाम्ना वरतनु स्मृतः । भार्या तवापि शुभ्रांगी नाम्ना वै शंकरी स्मृता
एकदा पथियातौ च नीचपुत्रं जलेपि च । मग्नं दृष्ट्वा हेलया च गतौ स पंचतां गतः
बहुपुण्यप्रभावेण राज्ञीराजा गतौ युवाम् । तेन कर्मविपाकेन युवायोर्न भवेत्सुतः
राजोवाच- इदानीं केन पुण्येन सुतो वै जायते प्रभो । अपुत्रस्य मनुष्याणां जीवनं हि निरर्थकम्
व्यास उवाच- सवस्त्रं चैव कूष्मांडं वृषभं ससुवर्णकम् । देहि दानं ब्राह्मणस्य कुरु बालव्रतं तथा
गौरीं कन्यां तथा देहि पुराणश्रवणं कुरु । पुत्रो वै जायते तत्र सर्वपातकनाशनम्
ब्रह्मोवाच- इति श्रुत्वा ततो राजा व्यासोक्तं दानमुत्तमम् । पुराणश्रवणं चैव चकार गतकिल्बिषः
ततः पुत्रो वर्षमध्ये बभूव सर्वपूजितः । अभूद्राजा सार्वभौमः सुंदरः कुलनायकः
सूत उवाच- य इदं शृणुयाद्भक्त्या करोति दानमुत्तमम् । अपुत्रो लभते पुत्रं संक्षेपात्कथितं मया
भक्त्या श्रुत्वा तु या नारी कुर्याद्ब्राह्मणपूजनम् । सुपुत्रा सा भवेन्नित्यं शास्त्रोक्तविधिना द्विज
सुवर्णं रजतं वस्त्रं पुष्पमाल्यं च चंदनम् । यो दद्यात्पुस्तके भक्त्या सर्वपापप्रणाशनम्
पूर्वजन्मनि यो मूढो ब्रह्मबालकघातकः । तस्य क्रूरो भवेत्पुत्रः सप्तजन्मांतरैर्द्विजः
शौनक उवाच- केन पुण्येन भो सूत वैकुंठं समवाप्यते । तद्वदस्व शृण्वतो मे पोतो हि भवसागरे