जयंती बुधवारे च रोहिण्या सहिता यदा । भवेच्च मुनिशार्दूल किं कृतैर्व्रतकोटिभिः
कृते त्रेतायुगे चैव द्वापरे च कलौ युगे । कृता सम्यग्विधानेन जयंती पापनाशिनी
जागरे पद्मनाभस्य पुराणं पाठयेत्तु यः । आजन्मोपार्जितं पापं दहते तूलराशिवत्
यः शृणोति नरो भक्त्या पुराणं हरिवासरे । कोटिजन्मार्जितं तस्य पापं नश्यति तत्क्षणात्
वासरे पद्मनाभस्य पूजयेद्वाचकं मुने । कुलकोटिं समुद्धृत्य विष्णुलोके स पूज्यते
जयंत्यामुपवासेन यो नरोऽत्र पराङ्मुखः । सर्वधर्मविनिर्मुक्तो यात्यसौ नरकं ध्रुवम्
गंधपुष्पैश्च धूपैश्च घृतपूर्णप्रदीपकैः । पूजयेद्भक्तिभावैश्च दद्याद्विप्राय दक्षिणाम्
विधिनानेन यो विप्र जयंतीं प्रकरोति च । नरो वै तारयेद्भक्त्या पुरुषानेकविंशतिम्
न दौर्भाग्यं न वैधव्यं न भवेत्कलहो गृहे । संततेर्न विरोधं च न पश्यति धनक्षयम्
यान्यांश्चिकीर्षते कामान्जयंती समुपोषकः । तांस्तान्प्राप्नोति सकलान्विष्णुलोकं स गच्छति
विष्णुभक्तिपरा नित्यं जयंतीव्रत मानसाः । ते धन्यास्ते कुलीनास्ते ईश्वरास्ते च पंडिताः
यानि कानि च तीर्थानि व्रतानि नियमानि च । जयंतीवासरस्यैव कलां नार्हंति षोडशीम्
भाद्रे वै चोभये पक्षे यः करोति सभार्यकः । राधाकृष्णाष्टमीं वत्स प्राप्नोति हरिसन्निधिम्
व्रतं च पुण्यकारं च यः करोति सदा हरेः । स याति विष्णोर्वैकुंठं जयंतीसमुपोषकः
आचारहीनं कुलभ्रष्टं कीर्तिहीनं कुयोनिजम् । नाशयत्याशु पापं च जयंती हरिवल्लभा
मेरुतुल्यानि पापानि ब्रह्महत्यादिकानि च । स निर्दहति सर्वाणि जयंत्यां समुपोषकः
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । मोक्षार्थी लभते मोक्षं जयंत्यां समुपोषकः
जयंतीकरणे चित्तं येषां भवति तत्परम् । यमोऽपि शंकते नित्यं ते यांति परमां गतिम्
सूत उवाच- कथयित्वा नारदं तु ययौ स च यथागतः । मयापि कथितं ब्रह्मन्यत्पृष्टोऽहं त्वया मुने
माहात्म्यं च जयंत्या ये शृण्वंति भक्तिभावतः । तेपि यांति परं धाम विमुक्ताः सर्वपातकैः
पुराणवाचकं ब्रह्मन्जयंतीव्रतिनं तथा । ये पश्यंति नराः पापास्ते यांति परमं पदम्
शौनक उवाच- कथयस्व महाप्राज्ञ पुत्रहीनो जनो भवेत् । कर्मणा केन वै सूत पुत्रो भवति केन च
सूत उवाच- एतत्पृष्टः पुरा ब्रह्मा नारदेन महात्मना । स यदाह तदा तं च शृणुष्व मुनिपुंगव
नारद उवाच- पितामह महाप्राज्ञ सर्वतत्त्वार्थपारग । अपुत्रो वै भवेन्मर्त्यः कर्मणा केन पद्मज
वंध्या स्त्री वा भवेत्केन वृजिनेन ममाग्रतः । कथय शृण्वतो वै मे सर्वप्राणिहिते रत
दुहिता जायते केन कर्मणा वा नपुंसकः । मृतवत्सो भवेत्केन मृतवत्सातिदुःखिता । केन पुण्येन भो ब्रह्मन्पुनः पुत्रो भवेद्वद
ब्रह्मोवाच- कथयामि समासेन सावधानेन तच्छ्रणु । वृत्तांतं पृच्छसि त्वं वै शृण्वतां विस्मयप्रदम्
पूर्वजन्मनि यो मर्त्यो वर्तनं ब्राह्मणस्य च । हरेद्वा हारयेदत्र पुत्रहीनो भवेत्किल
इह जन्मनि यो मर्त्यः पुराणश्रवणं हि च । ससस्या भूमेर्दानं च कुर्याद्वै श्रद्धयान्वितः
धेनुं बहुगुणां हैमीं बहुदुग्धां सदक्षिणाम् । सुवर्णप्रतिमां चैव तस्य पुत्रो भवेद्ध्रुवम्