कोटिजन्मार्जितं पापं त्यक्त्वा याति हरेर्गृहम् । भक्त्या प्रदीपं यो दद्यात्कार्तिके तु हरेर्दिनैः
तस्य पुण्यं समाख्यातुं न शक्तो हरिणा विना । घृतपूर्णप्रदीपं यो भक्त्या दद्याद्धरेर्गृहे
अश्वमेधसहस्रेण तस्य किं वा प्रयोजनम् । अश्वमेधप्रकर्ता यः स्वर्गं याति हरेर्दिने
कार्तिके दीपदाता च स गच्छेद्धरिमंदिरम् । व्यास उवाच- इति श्रुत्वा ततो दूता गतास्ते वै यथागताः
विष्णुदूता रथे कृत्वा गतास्तं विष्णुमंदिरम् । विष्णुसान्निध्य एवास्य मन्वंतरशतं गतम्
ततो मर्त्ये राजकन्या बभूव कृपया हरेः । पुत्रपौत्रसमायुक्ता चिरं भोगं चकार सा
इतः पुनर्गता सा तु गोलोकं हरिसेवया । सूत उवाच- भक्त्या शृणोति यो मर्त्यो दीपमाहात्म्यमुत्तमम्
सर्वपापविनिर्मुक्तः स याति विष्णुमंदिरम्
शौनक उवाच- जयंत्याः सूत माहात्म्यं कदा सा क्रियते जनैः । कथयस्व मयि त्वं वै पोतः संसारसागरे
सूत उवाच- शृणु विप्र प्रवक्ष्यामि यत्पृष्टो मुनिसत्तम । पुरा ब्रह्मा नारदेन पृष्ट एतत्सुरालये
नारद उवाच- जयंत्याश्चैव माहात्म्यं कथयस्व पितामह । यच्छ्रुत्वाहं गमिष्यामि तद्विष्णोः परमं पदम्
ब्रह्मोवाच- शृणुष्वावहितो विप्र तवाग्रे कथयाम्यहम् । जयंत्या उपवासेन विष्णुलोकं स गच्छति
स्मरणात्कीर्तनात्पापं सप्तजन्मार्जितं मुने । जयंती दहते तच्च किं पुनः सोपवासकृत्
जन्माष्टमी च नवमी चैत्रे मासि सिता शुभा । कृष्णा चतुर्दशी कुंभे मेषे शुक्ला चतुर्दशी
दुर्गाष्टम्याश्विने शुक्ला द्वादशी श्रवणान्विता । महापुण्याश्च शुभदा जयंत्यः षट्प्रकीर्तिताः
कृष्णजन्माष्टमी पूर्वा प्रसिद्धा पापनाशिनी । क्रतुकोटिसमा ह्येषा तीर्थानामयुतैः समा
कर्ता गवां सहस्रं तु यो ददाति दिनेदिने । तत्फलं समवाप्नोति जयंत्यां समुपोषणे
हेमभारसहस्रं तु कुरुक्षेत्रे रविग्रहे । तत्फलं समवाप्नोति जयंत्यां समुपोषणे
कृष्णाजिनसहस्राणि तिलधेनुशतानि च । तत्फलं समवाप्नोति जयंत्यां समुपोषणे
कन्याकोटिसहस्राणां दाने भवति यत्फलम् । तत्फलं समवाप्नोति जयंत्यां समुपोषणे
ससागरामिमां पृथ्वीं दत्वा यल्लभते फलम् । तत्फलं समवाप्नोति जयंत्यां समुपोषणे
वापीकूपतडागदि कर्तव्यं देवतालये । तत्फलं समवाप्नोति जयंत्यां समुपोषणे
मातापित्रोर्गुरूणां च भक्तिं युक्तः करोति यः । तत्फलं समवाप्नोति जयंत्यां समुपोषणे
आपदाहरणार्थाय तीर्थसेवाकृतात्मनाम् । सत्यव्रतानां यत्पुण्यं जयंत्यां समुपोषणे
गंगायां नर्मदायां यत्पुण्यं सारस्वते जले । स्नात्वा पुण्यमवाप्नोति जयंत्यां समुपोषणे
यत्पुण्यं श्राद्धकर्तॄणां पितॄणामिंदुसंक्षये । तत्फलं समवाप्नोति जयंत्यां समुपोषणे
नारद उवाच- केनकेन कृता पूर्वं कथयस्व पितामह । ब्रह्मोवाच- कार्तवीर्येण कर्णेन कुमारेण च धीमता
सगरेण दिलीपेन काकुस्थेन कृता पुरा । गौतमेन च गार्ग्येण जामदग्न्येन धीमता
वाल्मीकिना कृता पूर्वं द्रौपदेयेन साधुना । ददाति वांछितान्कामान्भाद्रपस्य सिताष्टमी
प्राजापत्यर्क्षसंयुक्ता विशेषेण मताष्टमी । वर्षेवर्षे प्रकर्तव्या प्रीत्यर्थे चक्रपाणिनः