दृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदा । उवाच च नमस्कृत्य गुंरुं दिव्याकृतिर्नृप
मुकुंद उवाच। वेदायन गुरो तुभ्यं नम आशीस्तवानुज । प्रासादाद्वां ममास्थीनि तीर्थेऽत्र पतितानि वै
अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलम् । एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः
त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागतः । अहं गच्छन्विमानेन दिव्येन त्रिदशालयम्
नमस्कृतो भवानेतत्तीर्थ चायं सहोदरः । दृष्टो मामनुजानीहि यामि स्वर्गं सुखोदयम्
नारद उवाच- श्रुत्वैवं वचनं तस्य मुकुंदस्य गुरुस्तदा । वेदायनो विमानस्थं तमूचे गतविस्मयः
देवायन उवाच- मुकुंदाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान् । कस्मिंल्लोके गतस्तात यतो यात्यधुना दिवम्
किं वृत्तं तत्र ते तात तस्यलोकस्य कोऽधिपः । कीदृशी च प्रजा कीदृक्धर्मस्तत्राखिलं वद
मुकुंद उवाच- कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनु । तीर्थस्यास्य प्रसादेन स्मृतिर्मे जायतेऽधुना
यदाहं तेन निहतश्चंडकेन दुरात्मना । नापितेन तदा जग्मुर्यमभृत्याः सुदारुणाः
पिंगाक्षा रक्तकेशाश्च श्यामदेह नखाधराः । वामना दीर्घचरणा ह्रस्वनासाश्च दंतुराः
नीयतां नीयतामेष धर्मराजस्य शासनात् । पुरीं संयमनीमेवमूचिरे ते परस्परम्
इत्युक्त्वा यातना देहे मां निवेश्य महारुषा । निबध्य दारुणैः पाशैर्जघ्नुर्लोहस्य मुद्गरैः
तैरहं नीयमानस्तु मार्गे ह्युत्तप्तवालुके । अरुदं भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः
प्रोचुश्च ते ध्रुवं कृत्वा निर्भर्त्स्येति च मां बहु । यमदूता ऊचुः । त्वया लुप्तो गुरुर्यस्माद्वदता ब्रह्म निश्चलम्
किं करोषि यमस्याग्रे द्रष्टव्यं दारुणं मुखम् । तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया
तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान् । इत्युक्त्वा मां मुहूर्तेन बहुयोजनसंस्थिताम्
पुरीं संयमनीं निन्युर्यत्र राजा स्वयं यमः । प्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः
आनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन् । दृष्ट्वा मां धर्मराजोऽथ प्रोवाच स्वसभासदः
यम उवाच- भो सभ्या मामकीं वाचं शृण्वंतु सुसमाहिताः । यदाहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशितः
तदा मामित्युवाचासौ ब्रह्मा लोकपितामहः । ब्रह्मोवाच- अधर्मिणां नराणां त्वं शास्ता संयमनीपतिः
यथापराधमाधत्स्व दंडं चंडकरात्मज । पित्रोरपोषको यस्तु समर्थो गुरुध्रुक्तु यः । एतौ महापातकिनौ निपात्यौ निरयेषु ते
सर्वेषु यावद्वर्षाणां प्रत्येकमयुतं भवेत् । एतयोर्न त्वया कार्या दया जातु ककुप्पते
यम उवाच- इत्यहं ब्रह्मणो वाक्यात्स्वगुरुद्रुहि मानवे । न करोमि क्रियां सभ्यास्तथा पित्रोरपोषके
ब्राह्मणोऽयं गुरुद्रोही तद्द्रोहादपमृत्युताम् । प्राप्तो मच्छासनाद्भृत्यैरानीतो दर्शनाक्षमः
भो भृत्याः प्रथमं घोरे रौरवे वत्सरायुते । पात्यतां च पुनस्तस्मान्निःसार्य्यान्यत्र पात्यताम्
तावंतमेव कालं वै पापोऽयं गुरुलोपकः । नरकेष्विति सर्वेषु यथाकालं स्थितं द्रुतम्
मुकुंद उवाच- वेदायन गुरो स्वामिन्भृत्यास्ते यमशासनात् । नीत्वा मां रौरवे घोरे पाशैर्बध्वा न्यपातयन्
तत्राहं तां व्यथां गुर्वी लब्धवानतिदारुणाम् । यथाकोऽपि क्षणस्तात नीतो मे युगवत्तदा
त्रिंशद्दिनानि तन्नीतं दुःखं मे तत्र तिष्ठता । एकत्रिंशतमे ह्यस्मिन्दिनेऽहं निर्गतस्तदा