गंधपुष्पादिनैवेद्यैः पूजनीयः पृथक्पृथक् । एवं यः कुरुते विप्र जयंतीसमुपोषणम्
कोटिजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम्
प्रसादाद्देवकीसूनोर्यामार्द्धेन विलीयते । जयंतीतिथिसंप्राप्तौ भुंजते ये नराधमाः
त्रैलोक्यसंभवं पापं भुंजते ते न संशयः । सागराद्यानि तीर्थानि मुक्तस्थानानि सर्वशः
गृहे तिष्ठंति सर्वांगे जयंतीव्रतकारिणः । तस्य सर्वाणि तीर्थानि देहे तिष्ठंति देवताः
करोति यो नरो भक्त्या जयंतीं कृष्णवल्लभाम् । न वेदेन पुराणेन मया दृष्टं महामुने
तत्समं नाधिकं वापि कृष्णराधाष्टमीव्रतम् । न करोति नरो भक्त्या स भवेत्क्रूरराक्षसः
यो नरोऽश्नाति मूढात्मा जयंतीवासरे द्विज । महानरकमश्नाति यथा च हरिवासरे
अतीतमागतं यस्तु कुलमेकोत्तरं शतम् । पतेत्तु नरके घोरे जयंत्यां भोजनेन वै
जयंती बुधवारे च रोहिण्या सहिता यदा । भवेच्च मुनिशार्दूल किं कृतैर्व्रतकोटिभिः
कृते त्रेतायुगे चैव द्वापरे च कलौ युगे । कृता सम्यग्विधानेन जयंती पापनाशिनी
जागरे पद्मनाभस्य पुराणं पाठयेत्तु यः । आजन्मोपार्जितं पापं दहते तूलराशिवत्
यः शृणोति नरो भक्त्या पुराणं हरिवासरे । कोटिजन्मार्जितं तस्य पापं नश्यति तत्क्षणात्
वासरे पद्मनाभस्य पूजयेद्वाचकं मुने । कुलकोटिं समुद्धृत्य विष्णुलोके स पूज्यते
जयंत्यामुपवासेन यो नरोऽत्र पराङ्मुखः । सर्वधर्मविनिर्मुक्तो यात्यसौ नरकं ध्रुवम्
गंधपुष्पैश्च धूपैश्च घृतपूर्णप्रदीपकैः । पूजयेद्भक्तिभावैश्च दद्याद्विप्राय दक्षिणाम्
विधिनानेन यो विप्र जयंतीं प्रकरोति च । नरो वै तारयेद्भक्त्या पुरुषानेकविंशतिम्
न दौर्भाग्यं न वैधव्यं न भवेत्कलहो गृहे । संततेर्न विरोधं च न पश्यति धनक्षयम्
यान्यांश्चिकीर्षते कामान्जयंती समुपोषकः । तांस्तान्प्राप्नोति सकलान्विष्णुलोकं स गच्छति
विष्णुभक्तिपरा नित्यं जयंतीव्रत मानसाः । ते धन्यास्ते कुलीनास्ते ईश्वरास्ते च पंडिताः
यानि कानि च तीर्थानि व्रतानि नियमानि च । जयंतीवासरस्यैव कलां नार्हंति षोडशीम्
भाद्रे वै चोभये पक्षे यः करोति सभार्यकः । राधाकृष्णाष्टमीं वत्स प्राप्नोति हरिसन्निधिम्
व्रतं च पुण्यकारं च यः करोति सदा हरेः । स याति विष्णोर्वैकुंठं जयंतीसमुपोषकः
आचारहीनं कुलभ्रष्टं कीर्तिहीनं कुयोनिजम् । नाशयत्याशु पापं च जयंती हरिवल्लभा
मेरुतुल्यानि पापानि ब्रह्महत्यादिकानि च । स निर्दहति सर्वाणि जयंत्यां समुपोषकः
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । मोक्षार्थी लभते मोक्षं जयंत्यां समुपोषकः
जयंतीकरणे चित्तं येषां भवति तत्परम् । यमोऽपि शंकते नित्यं ते यांति परमां गतिम्
सूत उवाच- कथयित्वा नारदं तु ययौ स च यथागतः । मयापि कथितं ब्रह्मन्यत्पृष्टोऽहं त्वया मुने
माहात्म्यं च जयंत्या ये शृण्वंति भक्तिभावतः । तेपि यांति परं धाम विमुक्ताः सर्वपातकैः
पुराणवाचकं ब्रह्मन्जयंतीव्रतिनं तथा । ये पश्यंति नराः पापास्ते यांति परमं पदम्